प्रदाय वसुधारां च वृद्धिश्राद्धादिकं तथा । प्राह्मणान्भोजयामास देवांश्च बान्धवांस्तथा
वाद्यं च वादयामास कारयामास मङ्गलम् । सुवेषं कारयामास वरस्यापि प्रशंसितम्
सज्जं च कारयामास नरयानं सुशोभनम् । एवं राजा भीष्मकश्च विवाहार्हं च मङ्गलम्
पुरोहितैर्वेदमन्त्रैः सर्व कर्म चकार सः । मणिरत्नं धनं चापि मुक्तामाणिक्यहीरकम्
भक्ष्यद्रव्यं च वस्त्रं चाप्युपहारमनुत्तमम् । भट्टेम्यो ब्राह्मणेभ्योऽपि भिक्षुकेभ्यो ददौ मुदा
वाद्यं च वादयामास कारयामास मङ्गलम् । सुवेषं कारयामास रुक्मिण्याश्च मनोहरम्
राज्ञीभिर्मुनिपत्नीभिर्विधानं च यथोचितम् । ततः शुभे क्षणे प्राप्ते माहेन्द्रे परमोदये
विवाहोचितलग्ने च लग्नाधिपतिसंयुते । सद्ग्रहेक्षणशुद्धे चाप्यसतां दृष्टिवर्जिते
शुभक्षणे सुभर्क्षे च विशुद्धे चन्द्रतारयोः । वेधदोषादिरहिते शलाकादिविवर्जिते
दंपत्योः शर्मयोग्ये च परिणामसुखप्रदे । एवंभूते च समये भीष्मकप्राङ्गणं हरिः
आजगाम सुरैः सार्ध सुनिविप्रपुरोहितैः । ज्ञातिभिर्बान्धवैः सार्धं पित्रा मात्रानृपैस्तथा
गोपालकैः पार्षदैश्च वयस्यैश्च मनोहरैः । भट्टैश्च गणकैर्ज्योतिः शास्त्रज्ञानविशारदैः
वाद्यैर्नानाविधैश्चैव नर्तकैर्गायनैस्तथा । नानाशिल्पकरैश्चैव मालाकारैस्तथाऽपरैः
विद्याधर्यप्सरोभिश्च किन्नरीभिश्च सत्वरम् । स्थलं च ददुशुर्देवा मुनयश्च नृपेश्वराः
सर्वे समागता ये च विवाहदर्शनोत्सुकाः । रम्भास्तम्भसहस्रैश्च पट्टसूत्रपरिष्कृतैः
चम्बकानां चन्दनानां रसालानां च पल्लवैः । माल्यैर्नानाविधैश्चैव पीतरक्तसितान्वितैः
परितो मङ्गलघटैः फलपल्लवसंयुतैः । कस्तूरीचन्दनाक्तैश्च कुङ्कुमेन विराजितैः
पर्णैर्लाजैः फलैः पुष्पैर्दूर्वाभिरुपशोभितैः । मुनिभिर्ब्राह्मणैश्चैव राजेन्द्रैरपि वेष्टितम्
रत्नेन्द्रसारनिर्माणवेदीयुक्तं मनोहरम् । चर्चितं चन्दनस्निग्धैः कस्तूरीकुङ्कुमान्वितैः
सुगन्धिशीतमन्दैश्च पवनैः सुरभीकृतम् । रत्नानां च सहस्रैश्च ज्वलितं ज्वलदीप्तकैः
नानाप्रकारधूपैश्च गन्धद्रव्यैः सुवासतम् । चित्रैर्विचित्रैर्विविधैः शिल्पिनांपुण्यकारिणाम्
परितः परितश्चैव शोभनार्हैः सुशोभनैः । गन्धर्वाणां च संगीतैमधुरंर्मधुरीकृतम्
विद्याधरीणांनृत्यैश्च नर्तकीनां च शिल्पिनाम् । तत्र निश्चेष्टचित्रैश्च जनराजिविराजितम्
गुप्तद्वारैर्गवाक्षैश्च युवतीभिश्च वीक्षितम् । मङ्गलेन घटेनैव विधुषा च पुरोधसा
कुशहस्तेन भूपेन दानेन दानवस्तुना । दृष्ट्वा च प्राङ्गणं राज्ञो देवा ब्रह्मादयस्तथा
अवरुह्य रथात्तूणं तिष्टन्ति प्राङ्गणे मुदा । राजेन्द्रा दानवेन्द्राश्च सुनयः सनकादयः
श्रीकृष्णश्चापि भगवान्पार्षदप्रवरैः सह । तान्दृष्ट्वा सहसोत्थाय जवेन भीष्मकस्तथा
मूर्घ्ना ववन्दे देवाश्च मुनोन्द्रांश्च नृपांस्तथा । रत्नसिहासनेष्वेव सुरम्येषु पृथवपृथक्
क्रमतो वासयामास संपूज्य सादरेण च । राजा तुष्टाव भक्त्या च तान्सर्वान्भक्तिपूर्वकम् वसुदेवं वासुदेवं साश्रुनेत्रः पुटाञ्जलिः
भीष्मक उवाच अद्य मे सफलं जन्म जीवितं च सुजीवितम् । बभूव जन्मकोटीनां कर्ममूलनिकृन्तनम्