शैलवृष्टिं शिलावृष्टिं जलवृष्टिं चकार सः । ज्वलदङ्गारवृष्टिं च शरवृष्टिं चकार ह
बलाच्चास्त्रेण सर्वाणि वारयामास लाङ्गली । हलेन तद्रथं चूर्ण चकार रणमध्यतः
घोटकान्सारथिं चैव जघान चैव लीलया । कोपाद्बलेन तं हन्तुं वाग्बभूवाशरीरिणी
त्यज शाल्वं कृष्णवध्यं तव किं पौरुषं रणे । यस्य मूर्ध्नि च ब्रह्माण्डं शूर्पे च सर्षपे यथा
तच्छ्रुत्वा बलदेवश्च हलेन तस्य मस्तकम् । चकार चूर्ण व्यथितः पपात रणमूर्धनि
शाल्वस्य पतनं दृष्ट्वा शिशुपालो महाबली । चकार शरवृष्टिं च जलवृष्टिं यथा भुवि
हली तस्य रथं चूर्ण चकार लाङ्गलेन च । अर्धचन्द्रेण तद्वाणान्वारयामास लीलया
तं हन्तुं शंकरः साक्षान्निषेधं च चकार तम् । कृष्णवध्यं त्यज बल पार्षदप्रवरं हरः
दन्तवक्त्रस्य दन्तं च बभञ्ज स हलेन च । सुप्रवृत्तस्य युद्धेन ते सर्वे जहसुश्च तम्
बलस्य विक्रमं दृष्ट्वा सर्वे वीराः पलायिताः । चक्रुः प्रवेशनं सर्वे कुण्डिनं वरयात्रिकाः
एतस्मिन्नन्तरे तत्र शतानन्दो महामुनिः । कोटिभिर्मुनिभिः सार्धमाजगाम हरेः पुरः
पुरं प्रवेशयामास शतद्वारं च दुर्गमम् । अगम्यं चापि शत्रूणां मित्राणा च सुखप्रदम्
देवकन्या नागकन्या राजकन्यास्तथैव च । मुनिकन्या वरं द्रष्टुं सस्मिताश्च समाययुः
ददृशुर्योषितः सर्वा निमेषरहितेन च । प्रसन्नं कारयामास सस्मितश्चन्द्रशेखरः
रत्नेन्द्रसारनिर्माणरथस्थं परमेश्वरम् । सर्वेषां परमात्मानं भक्तानुग्रहविग्रहम्
नवीनजलदश्यामं शोभितं पीतवाससा । यन्दनोक्षितसर्वाङ्गं वनमालाविभूषितम्
रत्नकेयूरवलयरत्नमालाकुलोज्ज्वलम् । रत्नकुण्डलयुग्मेन गण्डस्थलविराचितम्
रत्नेन्द्रसारनिर्माणक्वणन्मञ्जीररञ्जितम् । सस्मितं मुरलीहस्तं पश्यन्तं रत्नदर्पणम्
सप्तभिः पार्षदैर्गोपैः सेवितं श्वेतचामरैः । नवयौवनसंपन्नं शरत्कमललोचनम्
शरत्पूर्णेन्दुतुल्यास्यं भक्तानुग्रहकारकम् । कोटिकन्दर्पसौन्दर्यं सत्यं नित्यं सनातनम्
तीर्थपूतं कीर्तिपूतं ब्रह्मेशशेषवन्दितम् । परम्ह्नादकं रूपं कौटिचन्द्रसमप्रभम्
ध्यानासाध्यं दुराराध्यं परमं प्रकृतेः परम् । दूर्वया पट्टसूत्रं च रत्नेन्द्रसारदर्पणम्
दधानं कर्तृकासार्ध कदल्याः स्फुटमञ्जरीम् । चूडां त्रिविक्रमाकारां मालतीमाल्यभूषितम्
पुष्पं नारीप्रदत्तं च मुकुटं मस्तकोजज्ववलम् । दृष्ट्वा वरं युवत्यश्च मूर्च्छा संप्रापुरीश्वरम्
रुक्मिणीजीवनं धन्यं श्लाध्यमित्यूचुरीप्सितम् । जामातरं सा ददर्श राज्ञी भीष्मककामिनी
निमेषरहिता तुष्टा प्रसन्नवदनेक्षणा । राजा प्रसन्नवदनः सामात्यः सपुरोहितः
समागत्य सुरान्विप्रान्भूपांश्च प्रणनाम सः । ददौ योग्याश्रमं तेभ्यो भक्ष्यपूर्ण सुधोपमम्
दिवानिशं चाप्युवाच दीयतां दीयतामिति । सुखं निनाय रजनीं देवैश्च बान्धवैः सह
वसुदेवः प्रभाते च प्रातःकृत्यं चकार सः । स्नात्वा संध्यादिकं कृत्वा धृत्वा धौते च वाससी
चकार वेदमन्त्रेण शुभाधिवासनं हरेः । संपूज्य मातृकाः सर्वाः साक्षाच्च सर्वदेवताः