शिशुपाल उवाच अहो भुवि किमाश्चर्य देवा ब्रह्मादयस्तथा । मुनीन्द्रा ब्रह्मणः पुत्राश्चाऽऽययुर्मानवाज्ञया
दन्तवक्त्र उवाच संततं ब्राह्मणा लुब्धा देवाश्च भक्तवत्सलाः । आययुर्ब्रह्मपुत्राश्च नन्दपुत्राज्ञया कथम्
तेषां च वचनं श्रुत्वा चुकोप देवसंधकः । मुनिराजेन्द्रसंघश्च लाङ्गलीत्यादयस्तथा
इति श्रीब्रह्मo महाo शीकृष्णजन्मखo उत्तo नारदनाo रुक्मिण्युद्वाहे षडधिकशततमोऽध्यायः
अथ सप्ताधिकशततमोऽध्यायः नारायण उवाच अथ कोपपीतश्च बलदेवो महाबलः । हलेन रुक्मियानं च बभञ्ज मुनिपुंगव
घोटकान्सारथिं चैव निहत्य जगतीपतिः । भुमिष्ठं चापि पापिष्ठं रुक्मिं हन्तुं जगाम सः
रुक्मी च शरजालेन वारयामास लीलया । नागास्त्रं योजयामास बद्धुं हलिनमीश्वरम्
नागास्त्रं गारुडेनैव संजहार हली स्वयम् । जग्राह कोपाद्रुक्मी च परं पाशुपतं मुने
अव्यर्थं वैरिमर्द च शतसूर्यसमप्रभम् । अभितो हलिना रुक्मी जृम्भणास्त्रेण जृम्भितः
भूमिष्ठः स्थाणुमद्रुक्मी निद्रास्त्रेणैव निद्रितः । शाल्वस्तं निद्रितं दृष्ट्वा शतबाणान्मुमोच तम्
शैलवृष्टिं शिलावृष्टिं जलवृष्टिं चकार सः । ज्वलदङ्गारवृष्टिं च शरवृष्टिं चकार ह
बलाच्चास्त्रेण सर्वाणि वारयामास लाङ्गली । हलेन तद्रथं चूर्ण चकार रणमध्यतः
घोटकान्सारथिं चैव जघान चैव लीलया । कोपाद्बलेन तं हन्तुं वाग्बभूवाशरीरिणी
त्यज शाल्वं कृष्णवध्यं तव किं पौरुषं रणे । यस्य मूर्ध्नि च ब्रह्माण्डं शूर्पे च सर्षपे यथा
तच्छ्रुत्वा बलदेवश्च हलेन तस्य मस्तकम् । चकार चूर्ण व्यथितः पपात रणमूर्धनि
शाल्वस्य पतनं दृष्ट्वा शिशुपालो महाबली । चकार शरवृष्टिं च जलवृष्टिं यथा भुवि
हली तस्य रथं चूर्ण चकार लाङ्गलेन च । अर्धचन्द्रेण तद्वाणान्वारयामास लीलया
तं हन्तुं शंकरः साक्षान्निषेधं च चकार तम् । कृष्णवध्यं त्यज बल पार्षदप्रवरं हरः
दन्तवक्त्रस्य दन्तं च बभञ्ज स हलेन च । सुप्रवृत्तस्य युद्धेन ते सर्वे जहसुश्च तम्
बलस्य विक्रमं दृष्ट्वा सर्वे वीराः पलायिताः । चक्रुः प्रवेशनं सर्वे कुण्डिनं वरयात्रिकाः
एतस्मिन्नन्तरे तत्र शतानन्दो महामुनिः । कोटिभिर्मुनिभिः सार्धमाजगाम हरेः पुरः
पुरं प्रवेशयामास शतद्वारं च दुर्गमम् । अगम्यं चापि शत्रूणां मित्राणा च सुखप्रदम्
देवकन्या नागकन्या राजकन्यास्तथैव च । मुनिकन्या वरं द्रष्टुं सस्मिताश्च समाययुः
ददृशुर्योषितः सर्वा निमेषरहितेन च । प्रसन्नं कारयामास सस्मितश्चन्द्रशेखरः
रत्नेन्द्रसारनिर्माणरथस्थं परमेश्वरम् । सर्वेषां परमात्मानं भक्तानुग्रहविग्रहम्
नवीनजलदश्यामं शोभितं पीतवाससा । यन्दनोक्षितसर्वाङ्गं वनमालाविभूषितम्
रत्नकेयूरवलयरत्नमालाकुलोज्ज्वलम् । रत्नकुण्डलयुग्मेन गण्डस्थलविराचितम्
रत्नेन्द्रसारनिर्माणक्वणन्मञ्जीररञ्जितम् । सस्मितं मुरलीहस्तं पश्यन्तं रत्नदर्पणम्
सप्तभिः पार्षदैर्गोपैः सेवितं श्वेतचामरैः । नवयौवनसंपन्नं शरत्कमललोचनम्
शरत्पूर्णेन्दुतुल्यास्यं भक्तानुग्रहकारकम् । कोटिकन्दर्पसौन्दर्यं सत्यं नित्यं सनातनम्