दशलक्षं तुरङ्गाणां रथानां लक्षमेव च । रत्नालंकारयुक्तानां दासीनां चापि लक्षकम्
मणिलक्षं रत्नलक्षं स्वर्णकोटिं च सादरम् । वह्निशुद्धांशुकं रम्यं मुक्तामाणिक्यहीरकम्
दत्तवा कन्यां च राजेन्दो बलाय बलशालिने । रत्नेन्द्रसारयानेन तैः सार्ध कुण्डिनं ययौ
अथान्तरे च निर्बन्धे साङ्गे मङ्गलकर्मणि । रेवतीं वेशयामास योषितां कमलाकलाम्
देवकी रोहिणी चैव यशोदा नन्दगेहिनी । अदितिश्च दितिः शान्तिर्जयं कृत्वा च मन्दिरम्
ब्राह्मणान्भोजयामास ददौ तेभ्यो धनं मुदा । मङ्गलं कारयामास वसुदेवस्य वल्लभा
अथ देवाश्च मुनयो राजेन्द्रः कटकैः सह । संप्रापुर्लीलामात्रेण कुण्डिनं नगरं मुदा
ददृशुर्नगरं सर्वे ह्यतीव सुमनोहरम् । सप्तभिःपरिशाभिश्च गभीराभिश्च वेष्टितम्
प्राकारैः सप्तभिर्युक्तं द्वाराणां शतकैस्तथा । नानारत्नैश्च मणिभिर्निर्मितं विश्वकर्मणा
नगरस्य बहिर्द्वारं ददृशुर्वरयात्रिणः । रक्षितं रक्षकैः सार्ध चतुर्भिश्च महारथैः
रुक्मिश्च शिशुपालश्च दन्तवक्त्रो महाबली । शाल्वो मायाविनां श्रेष्ठो युद्धशास्त्रविशारदः
नानाशास्रत्रैस्तथाऽश्त्रैश्च रथस्थश्च रणोन्मुखः । विलोक्य कृष्णसैन्यं च चुकोप नृपनन्दनः
उवाच निष्ठुरं वाक्यं श्रुतितीक्ष्मं सुदुष्करम् । उपहास्य मुनीन्द्रांश्च देवांश्च मुनिपुंगवान्
रुक्मिरुवाच अहो कालकृतं कर्म दैवं च केन वार्यते । किंवाऽहं कथयिष्यामि देवेन्द्राणां च संसदि
ग्रहीतुं रुक्मिणीं कन्यां देवयोग्यां मनोहराम् । आयाति देवैर्मुनिभिर्नन्दस्य पशुरक्षकः
साक्षाज्जारश्च गोपीनां गोपोच्छिष्टान्नभोजनः । जातेश्च निर्मयो नास्ति भक्ष्यमैथुनयोस्तथा
किं नु राजेन्द्रपुत्रश्च किं नु वा मुनिपुत्रकः । वसुदेवः क्षत्रियश्च भक्षणं वैश्यमन्दिरे
शिशुकाले च स्त्रीहत्या कृताऽनेन दुरात्मना । कुब्जा मृता च संभोगाद्वाससा रजको मृतः
राजेन्द्रस्य वधे दुष्टो ब्रह्महत्यां लभेद्ध्रुवम् । मथुरायां च धर्मिष्ठः सद्यः कंसो निपातितः
शाल्व उवाच यदुक्तं रुक्मिणा देवाः किमसत्यं च तत्र वै । को वाऽयं रुक्मिणीभर्ता नन्दस्य पशुरक्षकः
शिशुपाल उवाच अहो भुवि किमाश्चर्य देवा ब्रह्मादयस्तथा । मुनीन्द्रा ब्रह्मणः पुत्राश्चाऽऽययुर्मानवाज्ञया
दन्तवक्त्र उवाच संततं ब्राह्मणा लुब्धा देवाश्च भक्तवत्सलाः । आययुर्ब्रह्मपुत्राश्च नन्दपुत्राज्ञया कथम्
तेषां च वचनं श्रुत्वा चुकोप देवसंधकः । मुनिराजेन्द्रसंघश्च लाङ्गलीत्यादयस्तथा
इति श्रीब्रह्मo महाo शीकृष्णजन्मखo उत्तo नारदनाo रुक्मिण्युद्वाहे षडधिकशततमोऽध्यायः
अथ सप्ताधिकशततमोऽध्यायः नारायण उवाच अथ कोपपीतश्च बलदेवो महाबलः । हलेन रुक्मियानं च बभञ्ज मुनिपुंगव
घोटकान्सारथिं चैव निहत्य जगतीपतिः । भुमिष्ठं चापि पापिष्ठं रुक्मिं हन्तुं जगाम सः
रुक्मी च शरजालेन वारयामास लीलया । नागास्त्रं योजयामास बद्धुं हलिनमीश्वरम्
नागास्त्रं गारुडेनैव संजहार हली स्वयम् । जग्राह कोपाद्रुक्मी च परं पाशुपतं मुने
अव्यर्थं वैरिमर्द च शतसूर्यसमप्रभम् । अभितो हलिना रुक्मी जृम्भणास्त्रेण जृम्भितः
भूमिष्ठः स्थाणुमद्रुक्मी निद्रास्त्रेणैव निद्रितः । शाल्वस्तं निद्रितं दृष्ट्वा शतबाणान्मुमोच तम्