तैलकुल्यापञ्चशतं गुडकुल्याद्विलक्षकम् । शर्कराणां राशिशतं मिष्टान्नानां चतुर्गुणम्
यवगोधूमचूर्णानां पिष्टराशिशतं शतम् । पृथुकानां राशिलक्षमन्नानां च चतुर्गुणम्
अथ श्रुत्वा च तद्वाक्यं राजेन्द्रः सपुरोहितः । चकार मन्त्रणां तूर्ण निर्जने मन्त्रिणा सह
द्विजं प्रस्थापयामास द्वारकां योग्यमीप्सितम् । कृत्वा च शुभलग्नं च सर्वेषामभिवाञ्छितम्
राजा संभृतसंभारो बभूव सत्वरं मृदा । निमन्त्रणं च सर्वत्र चकार च सुताज्ञया
विप्रः सुधर्मां संप्राप्य नृपैर्देवैश्च वेष्टिताम् । प्रददी पत्रिकां भद्रामुग्रसेनाय भूभृते
प्रफुल्लवदनो राजा श्रुत्वा पत्रं सुमङ्गलम् । सुवर्णानां सहस्रं च ब्राह्मणेभ्यो ददौ मुदा
दुंदुभिं वादयामास द्वारकायां च सर्वतः । देवान्मुनीन्नृपांश्चैव ज्ञातिवर्गाश्च बान्धवान्
भट्टांश्च भिक्षुकांश्चैव भोजयामास सादरम् । श्रीकृष्णस्य सृवेषं च कारयामास भूपतिः
अतीव रम्यमतुलं त्रेषु लोकेषु दुल्रभम् । यात्रां च कारयामास जगतां प्रवरं वरम्
वेदमन्त्रेण रम्येण माहेन्द्रे सुमनोहरे । आदौ ब्रह्मा रथस्थश्च सावित्र्या सहितो ययौ
रथस्यश्च महाहृष्टो भवान्या च भवः स्वयम् । शेषश्चापि दिनेशश्च गणेशश्चापि कार्तिकः
महेन्द्रश्चतथा चन्द्रो वरुणः पवनस्तथा । कुबेरश्च यमो वह्निरीशानोऽपि ययौ मुदा
देवानां च त्रिकोट्यश्च मुनीनां षष्टिकोटयः । राजेन्द्राणां त्रिलक्षं च श्वेतच्छत्रं त्रिलक्षकम्
उग्रसेनो बभौ राजा नक्षत्रेषु यथा शशी । ययौ प्रसन्नवदनः कुण्डिनाभिमुखो बली
रत्ननिर्माणयानेन बलदेवो महाबलः । वसुदेवश्चोद्धवश्च नन्दोऽक्रूरश्च सात्यकिः
गोपाला यादवेन्द्राश्च चन्द्रवंश्याश्च ते ययुः । धृतराष्ट्रसुताः सर्वे दुर्योधनपुलोगमाः
युधिष्ठिरस्तथा भीमः फाल्गुनो नकुलस्तथा । सहदेवश्च यानैश्च प्रययुः पञ्च पाण्डवाः
भीष्मो द्रोणश्च कर्णश्चाप्यश्वत्थामा महाबलः । कृपाचार्यश्च शकुनिः शल्यश्चप्रययौ मुदा
भटानां च त्रिकोट्यश्च विप्राणां शतकोटयः । संन्यासिनां सहस्रं च यतीनां ब्रह्मचारिणाम्
द्विसहस्रं जितक्रोधाश्चावधूतास्तथैव च । उत्पलानां सहस्रं च सहस्रं पुष्पकारिणाम्
नानाशिर्पकराश्चैव विचित्रं चित्रमेव च । लक्षं च वाद्यभाण्डानां नर्तकानां च लक्षकम्
गन्धर्वाणां गायकानां लक्षमेव तु नारद । तत्र कल्पे भक्त्येव गन्धर्वश्चोपबर्हणः
पञ्चाशत्कामिनीभिश्च त्वमेव तेषु मध्यगः । विद्याधरीणां लक्षं च लक्षमप्सरसां तथा
किन्नराणां त्रिलक्षं चगन्धर्वाणां त्रिलक्षकम्
इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo रुक्मिण्युद्वाहे पञ्चाधिकशततमोऽध्यायः
अथ पडधिकशततमोऽध्यायःनारायण उवाच एतस्मिन्नन्तरे नाजा ककुद्मी च महाबलः । वरार्थं कन्यकायाश्च ब्रह्मलोकात्समागतः
प्रददौ रेवतीं कन्यां शश्वत्सुस्थिरयौवनाम् । अमूल्यरत्नभूषाढ्या त्रिषु लोकेषु दुर्लभाम्
बलाय बलदेवाय संप्रदानेन कौतुकात् । वयो यस्या गतं सत्ये युगानां सप्तविंशतिः
दत्त्वा कन्यां विधानेन मुनिदेवेन्द्रसंसदि । गजेन्द्राणां त्रिलक्षं च जामात्रे यौतुकं ददौ