कम्पितोऽधर्मयुक्तश्च रक्तास्यो रक्तलोचनः । उवाच पितरं व्रिप्रं सभायामस्थिरस्तदा
उत्याय तिष्ठन्पुरतः सर्वेषां च सभासदाम्
रुक्मिरुवाच श्रृणु राजेन्द्र वचनं हितं तथयं प्रशंसितम् । त्यज वाक्यं भिक्षुकाणां लोभिनां क्रोधिनामहो
नर्तकानां च वैश्यानां भट्टानामर्थिनामपि । कायस्थानां च भिक्षूणामसत्यं वचनं सदा
घटकानां नाटकानां स्त्रीलुब्धाना च कामिनाम् । दरिद्राणां च मूर्खाणां स्तुतिपूर्व वचः सदा
निहत्य कालयवनं राजेन्द्रं दूरतो भिया । उवायेन महाबाहो लब्धं कृष्णेन तद्धनम्
द्वारकाया धनी कृष्णो यवनस्य धनेन च । जरासंधभयेनैव समुद्राभ्यन्तरे गृही
जरासंधशतं चैव क्षणेनैव च लीलया । क्षमोऽहं हन्तुमेकाकी राज्ञश्चान्यस्य का कथा
दुर्वाससश्च शिष्योऽहं रणशास्त्रविशारदः । ध्रुवं भीष्मक तेनैव विश्वं संहर्तुमीश्वरः
मत्समः पर्शुरामश्च शिशुपालश्च मत्समः । सखा च बलवाञ्छूरः स्वर्गं जेतुं स च क्षमः
महेन्द्रं सगणं जेतुमहमीशः क्षणेन च । जित्वा युद्धे जरासंधं दुर्बलं योगिनं नृप
अहंकारयुतः कृष्णो पीरं स्वं मन्यते धिया । यद्यायास्यति मद्ग्रामं विवाहं कर्तुमीप्सितम्
ध्रुवं प्रस्थापयिष्यामि क्षणेन यममन्दिरम् । अहो नन्दस्य वैश्यस्य तस्मै गोरक्षकाय च
साक्षाज्जाराय गोपीनां गोपालोच्छिष्टभोजिने । करोषि कन्यास्वीकारं देवयोग्यां च रुक्मिणीम्
दातुमिच्छसि वाक्येन भिङुकस्य द्विजस्य च । राजेन्द्र बुद्धिहीनोऽसि वचनाद्वद्ग(दुर्ब) लस्य च
मा राजपुत्रो माशूरो म कुलीनश्च मा शुचिः । मा दाता मा धनाढ्यश्च मा योग्यो मा जितेन्द्रियः
कन्यां देहि सुपुत्राय शिशुपालाय भूमिप । बलेन रुद्रतुष्टाय राजेन्द्रतनयाय च
निमन्त्रणं कुरु नृप नानादेशभवान्नृपान् । बान्धवांश्च मुनीन्द्रांश्च पत्रद्वारा त्वरान्वितः
महाराष्ट्रं विराटं च मुद्गलं च मुरङ्गकम् । भल्लकं गल्लकं खर्व दुर्गं प्रस्थापय द्विजम्
घृतकुल्यासहस्रं च मधुकुल्यासहस्रकम् । दधिकुल्यासहस्रं च दुग्धकुल्यासहस्रकम्
तैलकुल्यापञ्चशतं गुडकुल्याद्विलक्षकम् । शर्कराणां राशिशतं मिष्टान्नानां चतुर्गुणम्
यवगोधूमचूर्णानां पिष्टराशिशतं शतम् । पृथुकानां राशिलक्षमन्नानां च चतुर्गुणम्
अथ श्रुत्वा च तद्वाक्यं राजेन्द्रः सपुरोहितः । चकार मन्त्रणां तूर्ण निर्जने मन्त्रिणा सह
द्विजं प्रस्थापयामास द्वारकां योग्यमीप्सितम् । कृत्वा च शुभलग्नं च सर्वेषामभिवाञ्छितम्
राजा संभृतसंभारो बभूव सत्वरं मृदा । निमन्त्रणं च सर्वत्र चकार च सुताज्ञया
विप्रः सुधर्मां संप्राप्य नृपैर्देवैश्च वेष्टिताम् । प्रददी पत्रिकां भद्रामुग्रसेनाय भूभृते
प्रफुल्लवदनो राजा श्रुत्वा पत्रं सुमङ्गलम् । सुवर्णानां सहस्रं च ब्राह्मणेभ्यो ददौ मुदा
दुंदुभिं वादयामास द्वारकायां च सर्वतः । देवान्मुनीन्नृपांश्चैव ज्ञातिवर्गाश्च बान्धवान्
भट्टांश्च भिक्षुकांश्चैव भोजयामास सादरम् । श्रीकृष्णस्य सृवेषं च कारयामास भूपतिः
अतीव रम्यमतुलं त्रेषु लोकेषु दुल्रभम् । यात्रां च कारयामास जगतां प्रवरं वरम्