अन्यासु रमणीयासु श्रेष्ठा च सुमनोहरा । रुक्मिण्या भीष्मकन्यायाः कलां नार्हति षोडशीम्
तां दृष्ट्वा राजराजेन्द्रो वालक्रीडारतां पराम् । बालां सुशोभां कुर्वन्तीं यथाऽभ्रेषु विधोः कलाम्
शरत्पूर्णेन्दुशोभाढ्यां शरत्कमललोचनाम् । विवाहयोग्यां युवतीं लज्जानम्राननां शुभम्
सहसा चिन्तितो धर्मो धर्मशीलश्च सुव्रतः । सुतां पप्रच्छ पुत्रांश्च ब्राह्मणांश्च पुरोहितान्
कं वृणोमि सुतार्ध च वराहं प्रवरं वरम् । मुनिपुत्रं देवपुत्रं राजेन्द्रसुतमीप्सितम्
विवाहयोग्या कन्या मे वर्धमाना मनोहरा । शीघ्रं पश्य वरं याग्यं नवयौवनसंस्थितम्
धर्मशीलं सत्यसंधं नारायणपरायणम् । महाकुलप्रसूतं च सर्वत्रैव प्रतिष्ठितम्
करोषि राजपुत्रं चेद्रणशास्त्रविशारदम् । महारथं प्रतापार्हं रणमूर्ध्नि च सुस्थिरम्
करोषि देवपुत्रं चेद्देवं गुणयुतं तथा । करोषि मुनिपुत्रं चेच्चतुर्वेदविशारदम्
वावदूकं विचारज्ञं सिद्धान्तेषु नितान्तकम् । नृपेन्द्रवचनं श्रुत्वा तमुवाच मुनेः सुतः
गोतमस्य शतानन्दो वेदवेदाङ्गपारगः । आप्तः प्रवक्ता विज्ञश्च धर्मी कुलपुरोहितः
शतानन्द उवाच राजेन्द्र त्वं च धर्मज्ञो धर्मशास्त्रविशारदः । पृर्वाख्यानं च वेदोक्तं कथयामि निशामय
भुवो भारावतरणे स्वयं नारायणो भुवि । वसुदेवसुतः श्रीमान्परिबूर्णतमः प्रभुः
विधातुश्च विधाता च ब्रह्मेशशेषवन्दितः । ज्योतिःस्वरूपः परमो भक्तानुग्रहविग्रहः
परमात्मा च सर्वेषां प्राणिनां प्रकृतेः परः । निर्लिप्तश्च निरीहप्तश्च साक्षी च सर्वकर्मणाम्
राजेन्द्र तस्मै कन्यां च परिपूर्णतमाय च । दत्त्वा यास्यसि गोलोकं पितॄणां शतकैः सह
लभ सारूप्यमुक्तिं च कन्या दत्त्वां परत्र च । इहैव सर्वपूज्यश्च भव विश्वगुरोर्गुरुः
सर्वस्वं दक्षिणां दत्त्वा महालक्ष्मीं च रुक्मिणीम् । समर्पणं कुरुविभो कुरुष्व जन्मखण्डनम्
विधाता निखितो राजन्संबन्धः सर्वसंमतः । द्वारकानगरे कृष्णं शीघ्रं प्रस्थापय द्विजम्
कृत्वा शुभक्षणं तूर्ण सर्वेषामपि संमतम् । आनीय परमात्मानं भक्तानुग्रहविग्रहम्
ध्यानानुरोधहेतुं च नित्यदेहमनुत्तमम् । दृष्टिमात्रात्कुरु नृप स्वजन्मकर्मखण्डनम्
यं न जानन्ति चत्वारो वेदाः संतश्च देवताः । सिद्धेन्द्राश्च मुनीन्द्राश्च देवा ब्रह्मादयस्तथा
ध्यायन्ते ध्यानपूताश्च योगिनो न विदन्ति यम् । सरस्वती जडीभूता वेदाः शास्त्राणियानि च
सहस्रवक्त्रः शेषश्च पञ्चवक्त्रः सदाशिवः । चतुर्मुखो जगद्धाता कुमारः कार्तिकस्तथा
ऋषयो मुनयश्चैव भक्ताः परमवैष्णवाः । अक्षमाः स्तवने यस्य ध्यानासाध्यश्च योगिनाम्
बालकोऽहं महाराज तद्गुणं कथयामि किम् । शतानन्दवचः श्रुत्वा प्रफुल्लवदनो नृपः
आनिङ्गनं ददौ तस्मै समुत्थाय जवेन च । नानारत्नं मुवर्ण च वस्त्रं च रत्नभूषणम्
ददौ तस्मै प्रदानं च प्रसादसुमुखो नृपः । गजेन्द्र तुरगं श्रेष्ठं रथं च मणिनिर्मितम्
रत्नसिहासनं रम्यं धनं च विपुलं तथा । भूमिं च सर्वसस्याढ्यां शश्वद्वृष्टिकरीं शुभाम्
अकृष्टसाध्यां पूज्यां च ग्रामं सर्वप्रशंसितम् । एतस्मिन्नन्तरे रुक्मिश्चुकोप नृपनन्दनः