तस्मै वस्त्रयुगं दत्तं वह्निशुद्धं मनोहरम् । वरुणेन पुरा दत्तं कृष्णाय परमात्मने
माल्यं च पारिजातानां चन्दनं रत्नभूषणम् । रत्नच्छत्रं ददौ तस्मै बलदेवो महाबलः
ब्रह्मा कमण्डलुं चैव शूलं चापि महेश्वरः । पार्वती रत्नमाल्यं च हारं च मालती सती
अन्ये देवाश्च मुनयो राजेन्द्राः सिद्धपुंगवाः । यौतकं च ददौ तस्मै क्रमेण च पृथक्पृथक्
वसुदेवो ददौ तस्मै शुभदं श्वेतचामरम् । पवनेन पुरा दत्तं कृष्णाय परमात्मने
नन्दो ददौ च सुरभिं कामधेनुं च पूजिताम् । यशोदा देवकी तस्मै रत्नश्रेष्ठं ददौ मुदा
सप्तभिः किंकरैश्चापि सैवितः श्वेतचामरैः । दधार च्छत्रमक्रूरो भक्त्या चैवाऽऽज्ञया हरेः
रत्नसिहासने रम्ये ददर्श रत्नदर्पणम् । अतीव पुण्यावाप्यं च हरिणां च पुरस्कृतः
चक्रुः स्तुतिं च भट्टाश्च भिङुका ब्राह्मणास्तथा । ददुः शुभाशिषं तस्मै देवाश्च मुनयस्तथा
ब्रह्मणेम्यो ददौ राजा रत्नकोटिं च भक्ततः । भट्टभ्यो रत्नशतकं भिक्षुकेम्यस्तथैव च
अभिषिच्य नृपेन्द्रं च देवांश्च मुनिपुंगवान् । संपूज्य ब्राह्मणांश्चापि भट्टान्भिक्षुं द्विजं गुरुम्
स्वालयं च ययुः सर्वे यादवाश्च मुदाऽन्विताः । ये ये हरेः पार्षदाश्च ते सर्वे स्वालयं ययुः
प्रभाते चाऽऽययुः सर्वे सुधर्मा च सभां हरेः । नमस्कृत्य नृपेन्द्रं च चोषुः सर्वे च संसदि
इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारादनाo द्वारकाप्रवेश उग्रसेनाभिषेको नाम चतुरधिकशततमोऽध्यायः
अथ पञ्चाधिकशततमोऽध्यायः नारायण उवाच अथ वैदर्भराजेन्द्रो महाबलपराक्रम् । विदर्भदेशे पुण्याश्च सत्यशीलश्च भीष्मकः
राजा नारायणांशश्च दाता च सर्वसंपदाम् । धर्मिष्ठस्च गरीयांश्च वरिष्ठश्टापि पूजितः
तस्य कन्या महालक्ष्मी रुक्मिणी योषितां वरा । अतीव सुन्दरी रम्या रमा रामासु पूजिता
नवयौवनसंपन्ना रत्नाभरणभूषिता । तप्तकाञ्चनवर्णाभा तेजसोज्ज्वलिता सती
शुद्धसत्त्वस्वरूपा सा सत्यशीला पतिव्रता । शान्ता दान्ता नितान्ता चाप्यनन्तगुणशालिनी
इन्द्राणी वरुणानी च चन्द्रनारी च रोहिणी । कुबेरपत्नी सूर्यस्त्री स्वाहा शान्ता कलावती
अन्यासु रमणीयासु श्रेष्ठा च सुमनोहरा । रुक्मिण्या भीष्मकन्यायाः कलां नार्हति षोडशीम्
तां दृष्ट्वा राजराजेन्द्रो वालक्रीडारतां पराम् । बालां सुशोभां कुर्वन्तीं यथाऽभ्रेषु विधोः कलाम्
शरत्पूर्णेन्दुशोभाढ्यां शरत्कमललोचनाम् । विवाहयोग्यां युवतीं लज्जानम्राननां शुभम्
सहसा चिन्तितो धर्मो धर्मशीलश्च सुव्रतः । सुतां पप्रच्छ पुत्रांश्च ब्राह्मणांश्च पुरोहितान्
कं वृणोमि सुतार्ध च वराहं प्रवरं वरम् । मुनिपुत्रं देवपुत्रं राजेन्द्रसुतमीप्सितम्
विवाहयोग्या कन्या मे वर्धमाना मनोहरा । शीघ्रं पश्य वरं याग्यं नवयौवनसंस्थितम्
धर्मशीलं सत्यसंधं नारायणपरायणम् । महाकुलप्रसूतं च सर्वत्रैव प्रतिष्ठितम्
करोषि राजपुत्रं चेद्रणशास्त्रविशारदम् । महारथं प्रतापार्हं रणमूर्ध्नि च सुस्थिरम्
करोषि देवपुत्रं चेद्देवं गुणयुतं तथा । करोषि मुनिपुत्रं चेच्चतुर्वेदविशारदम्
वावदूकं विचारज्ञं सिद्धान्तेषु नितान्तकम् । नृपेन्द्रवचनं श्रुत्वा तमुवाच मुनेः सुतः