पैतृकी जन्मभूमिश्चेद्द्विगुणं तत्फलं लभेत् । पैतृकीभूमितुल्याच दानभूमिः सतामपि
वासुदेव उवाच भोगास्ते वचनं किं वा निषेकः केन वार्यंते । पैतृकी तीर्थतुल्या सा किं तीर्थं द्वारकापरम्
सर्वतीर्थपरा श्रेष्ठा द्वारका बहपुण्यदा । यस्याः प्रवेशमात्रेण नराणां जन्मखण्डनम्
दानं च द्वारकायां च श्राद्धं च देवपूजनम् । चतुर्गुणं च तीर्थानां गङ्गादीनां च भूमिप
गच्छ ब्रह्मदिभिः सार्ध मुनिभिर्यादवैः सह । राजेन्द्रभवनं तत्र गृहाणां सादरं पुनः
करोति शश्वन्न्यक्कारं महेन्द्रस्यामरावतीम् । निवस त्वं सुधर्मायां माहेन्द्रे च क्षणे नृप
जम्बुद्वीपस्थिता भूपा राजेन्द्रमण्डलेश्वराः । करं दास्यन्ति तुभयं च महेन्द्राय सुरा यथा
भूयाज्जितः कुबेरश्च धनेन धनसंपदा । तेजसा भास्करश्चापि महेन्द्रः संपदः तथा
देवा जिता रणेनैव पुण्येन मुनयो जिताः । तपस्विनश्य तपसा व्रतीनश्च व्रतेन च
उग्रसेनसमो राजा न भूतो न भविष्यति । सभायां यस्य भगवान्बलदेवो महाबलः
विश्वं च यस्य शिरसां सहस्राणं नरेश्वर । एकस्मिञ्शिरसि न्यस्तं शूर्पे च सर्षपो यथा
न ह्यनन्तसमो देवो बलेन बलवत्तरः । यद्गुणानां च नास्त्यन्तस्तेनानन्तं जगुर्बुधाः
वसवोऽष्टौ महाभागा रुद्राश्च शंकरं विना । बलिनो द्वादशादित्या महेन्द्रश्च सुरैः समः
न समर्था ध्रुवं जेतुमुग्रसेनं नृपेश्वरम् । कृष्णस्य वचनं श्रुत्वा प्रसन्नवदनो नृपः
प्रययौ यादवैः सार्ध महेन्द्रभवनात्परम् । स्वालयं द्वारकामध्ये ज्वलन्तं मणितेजसा
सहस्रैद्वरिपालैश्च शूलिभिर्दण्डहस्तकैः । नियुक्तै रक्षितं द्वारं ददर्श मानवेश्वरः
अभ्यन्तरे च शिबिरं द्वारेभ्यः षड्भ्य एव च । मन्दिराणां च शतकै रत्नानां परिभूषणम्
कोटिं मत्तगजेन्द्राणां ददर्श गजमन्दिरे । चतुर्युगं गजौघं गजानां षड्गुणं तथा
महाबलांश्च तुरगान्सूर्याश्वं च हसन्ति ये । गजेन्द्रराजं सर्वेषां वाहनानामपीश्वरम्
हसत्यैरावतं शश्वन्महेन्द्रस्य च नारद । अत्युच्चैरुच्चैःश्रवमां ददर्श कोटिमीप्सितम्
खराणां दशकोटिं च पादातं षड्गुणं तथा । निर्माणं रत्नसाराणां तथानां पञ्चलक्षकम्
पञ्चलक्षं सारथीनां तत्राश्वं षड्गुणं तथा । अश्ववाटं तत्समं च सुधर्मां च सभामपि
ददर्शाम्यन्तरे रम्ये देवौघमुनिसंयुताम् । वह्निशुद्धाशुकै रम्यैर्भूषितां रक्तकम्बलैः
रत्नसिंहासनै रम्यैर्भूषितां रक्तपिङ्गलैः । अमूल्यरत्ननिर्माणवीथीनां तेजसोज्ज्वलाम्
वेष्टितां च महाभीतैः किंकरैः शतकोटिभिः । प्रविवेश सभां रम्यां श्रुत्वा शङ्खध्वनिं शुभम्
वाद्यं च दुंदुभीनां च मुनीनां वेदमन्त्रकम् । दृष्ट्वा नृपं समुत्तस्थौ वेगेन सबलो हरिः
ब्रह्मा महेश्वरश्चैव शेषश्च देवपुंगवाः । समुत्तस्थुः सुराः सर्वे मुनयश्च महाव्रताः
राजेन्द्राश्चापि सिद्धेन्द्रा वसुदेवपुरोगमाः । रत्नसिंहासने रम्ये चोग्रसेनो महाबलः
समुवास महेन्द्रस्य मुनीनामाज्ञया हरेः । देवानां च गुरूणां च गर्गस्यापि तथैव च
सप्ततीर्थोदकेनैव पूर्णकुम्भेन नारद । जकार वेदमन्त्रैश्च नृपस्याप्यभिषेचनम्