स्वर्गे च स्वर्गलक्ष्मीश्च राजलक्ष्मीश्च राजसु
सर्वेषु प्राणिद्रव्येषु शोभारूपा मनोहरा
वाणिज्यरूपा वणिजां पापिनां कलहङ्करी
चपले चपला भक्तसम्पदो रक्षणाय च
शक्तिर्द्वितीया कथिता वेदोक्ता सर्वसम्मता ।। 2.1.
वाग्बुद्धिविद्याज्ञानाधिदेवता परमात्मनः
सुबुद्धिः कविता मेधा प्रतिभा स्मृतिदा सताम्
व्याख्याबोधस्वरूपा च सर्वसंदेहभञ्जिनी
सर्वसङ्गीतसन्धानतालकारणरूपिणी
यया विना च विश्वौघो मूको मृतसमः सदा
शुद्धसत्त्वस्वरूपा या सुशीला श्रीहरिप्रिया
जपन्ती परमात्मानं श्रीकृष्णं रत्नमालया
सिद्धिविद्यास्वरूपा च सर्वसिद्धिप्रदा सदा
यथागमं यथाकिञ्चिदपरां संनिबोध मे
सन्ध्यावन्दनमन्त्राणां तन्त्राणां च विचक्षणा 2.1.
ब्राह्मण्यतेजोरूपा च सर्वसंस्कारकारिणी
तीर्थानि यस्याः संस्पर्शं दर्शं वाञ्छन्ति शुद्धये
परमानन्दरूपा च परमा च सनातनी
ब्रह्मतेजोमयी शक्तिस्तदधिष्ठातृदेवता
देवी चतुर्थी कथिता पञ्चमीं वर्णयामि ते
प्राणाधिकप्रियतमा सर्वाद्या सुन्दरी वरा
वामार्द्धाङ्गस्वरूपा च सुगुणैस्तेजसा समा
परमानन्दरूपा च धन्या मान्या च पूजिता
रासमण्डलसंभूता रासमण्डलमण्डिता
गोलोकवासिनी देवी गोपीवेषविधायिका 2.1.
निर्गुणा च निराकारा निर्लिप्ताऽऽत्मस्वरूपिणी
वेदानुसारध्यानेन विज्ञेया सा विचक्षणैः
वह्निशुद्धांशुकाधाना रत्नालङ्कारभूषिता
श्रीकृष्णभक्तदास्यैकदायिनी सर्वसम्पदाम्
यत्पादपद्मसंस्पर्शपवित्रा च वसुन्धरा