याज्ञवल्क्यः सहस्रैश्च व्यासः शिष्यत्रिकोटिभिः । शिष्यैर्लक्षैश्च सहितो गर्गः कुलपुलोहितः
गालवश्च सहस्रैश्च सहसैः सौभरिस्तथा । त्रिकोटिभिर्लोमशश्च मार्कण्डेयस्त्रिकोटिभिः
कोटिभिर्वामदेवश्च जैगीषव्यस्त्रिकोटिभिः । सांदीपनिर्देवलश्च सच्छिष्यैश्च त्रिकोटिभिः
वोढुः शिष्यैः कोटिभिश्च लक्षैः पञ्चशिखस्तथा । अहं नारायणश्चैव नरो मम सहोदरः
शिष्यैस्त्रिकोटिभिः सार्धं विश्वामित्रश्च कोटिभिः । त्रिकोटिभिर्जरत्कारुरास्तीकश्च त्रिकोटिभिः
त्रिकोटिभिः पर्शुरामो वत्सो लक्षैश्च शिष्यकैः । दक्षस्त्रिलक्षैः शिष्यैश्च कपिलः पञ्चकोटिभिः
संवर्तश्च त्रिलक्षैश्चाप्युतथ्यश्च तथैव च । सहस्रैर्जैमिनिश्चैव पैलो लक्षैस्तथैव च
सुवणंश्च सहस्रैश्च वैशम्पायन एव च । शिष्यैर्लक्षैः समेतश्च व्यासशिष्यः पुरोगमः
लक्षैः शिष्यैस्तथा शृङ्गी चोपमन्युस्तथैव च । सहस्रैश्च गौरमुखः कचो लक्षैर्गुरोः सुतः
अश्वत्थामा तथा द्रोणः कृपाचार्यः सशिष्यकः । भीष्मः कर्णश्च शकुनी राजा दुर्योधनस्तथा
श्रीभगवानुवाच शुभकर्मणि निष्पन्ने यास्यन्ति ये समागताः । शिवब्रह्मादयो देवा मुनयश्च तथाऽपरे
भवाश्च यादवैः सार्धं प्रविश द्वारकां पुरीम् । मत्पित्रा मातृभिः सार्ध माहेन्द्रे च क्षणे नृप
अपरे यदवोऽन्ये च यास्यन्ति मथुरां पुरीम् । श्रुत्वेति विरसो राजा तमुवाच भयाकुलः
उग्रसेन उवाच वासुदेव न यास्यामि भूमिं तां पैतृकीं पुनः । सर्वतीर्थपरां शुद्धां दैवे कर्मणि पैतृके
पावके भूमिदेशे च पितॄणां निर्वपेत्तु यः । तद्भूमिः स्वामिपितृभिः श्राद्धकर्मणि हन्यते
पितॄणां निष्फलं श्राद्धं देवानामपि पूजनम् । किंचित्फलप्रदं चैव संपूर्णे पैतृके स्थले
पुत्रपौत्रकलत्रेभ्यः प्राणेभ्यः प्रेयसी सदा । दुर्लभा पैदृकी भूमिः पितुर्मातुर्गरींयसी
तत्सत्यं च पवित्रं च दैवे कर्मणि पैतृके । क्रीडां च दत्ते दानं च परदत्तमशुद्धकम्
म्रियते पैतृकीभूम्यं तीर्थतुल्यफलं लभेत् । गङ्गाजलसमं पूतं पतृखातोदकं हरे
तत्र स्नात्वा जले पूते गङ्गास्नानफलं लभेत् । पितणां तर्पणां तत्र पवित्रं देवपूजनम्
पैतृकी जन्मभूमिश्चेद्द्विगुणं तत्फलं लभेत् । पैतृकीभूमितुल्याच दानभूमिः सतामपि
वासुदेव उवाच भोगास्ते वचनं किं वा निषेकः केन वार्यंते । पैतृकी तीर्थतुल्या सा किं तीर्थं द्वारकापरम्
सर्वतीर्थपरा श्रेष्ठा द्वारका बहपुण्यदा । यस्याः प्रवेशमात्रेण नराणां जन्मखण्डनम्
दानं च द्वारकायां च श्राद्धं च देवपूजनम् । चतुर्गुणं च तीर्थानां गङ्गादीनां च भूमिप
गच्छ ब्रह्मदिभिः सार्ध मुनिभिर्यादवैः सह । राजेन्द्रभवनं तत्र गृहाणां सादरं पुनः
करोति शश्वन्न्यक्कारं महेन्द्रस्यामरावतीम् । निवस त्वं सुधर्मायां माहेन्द्रे च क्षणे नृप
जम्बुद्वीपस्थिता भूपा राजेन्द्रमण्डलेश्वराः । करं दास्यन्ति तुभयं च महेन्द्राय सुरा यथा
भूयाज्जितः कुबेरश्च धनेन धनसंपदा । तेजसा भास्करश्चापि महेन्द्रः संपदः तथा
देवा जिता रणेनैव पुण्येन मुनयो जिताः । तपस्विनश्य तपसा व्रतीनश्च व्रतेन च
उग्रसेनसमो राजा न भूतो न भविष्यति । सभायां यस्य भगवान्बलदेवो महाबलः