परितश्चतुरस्रां च शतयोजनसंमिताम् । सप्तभिः परिखाभिश्च गम्भीराभिश्च वेष्टिताम्
प्राकारैर्नवभिर्युक्तां लक्षैः क्रीडासरोवरैः । मनोहरैः सपद्मैश्च सहितैश्च मधुव्रतैः
शोभितां सर्वतोभद्रैः पुष्पोद्यानत्रिलक्षकैः । प्रफुल्लपुष्पैः पवनैः सर्वत्र सुरभीकृताम्
आमोदितां च शीतेन मन्दचन्दनवायुना । तरुभिर्नारिकेलाणां शोभितां शतकोटिभिः
गुवाकानां च वृक्षैश्च भूषितां तच्चतुर्गुणैः । चतुर्गुणैर्गुवाकानां युक्तामाम्रमहीरुहैः
परीतां पनसानां च वृक्षैराम्रसमैर्मुने । सुशोभितां च तालानां द्रुमैराम्रसमैर्मुने
अश्वत्थैर्बदरीभिश्च बिल्वैराम्रातकैर्वटैः । शाल्मलीभिश्च जम्बूभिः कदम्बैश्चापि शोभिताम्
वंशैश्च तिन्तिडीभिश्च चम्पकैर्बकुलैस्तथा । नागेश्वरैर्नागरङ्गैर्जम्बीरैर्दाडिमैर्युताम्
खर्जुरैरर्जुनैः पिष्टैरिक्षुभिः काञ्चनैरपि । हरीतकीभिर्धात्रीभिरिन्दुभिः परितः प्लुताम्
शालैः प्रियालैर्हिन्तालैः शिरीषैः सप्तपर्णकैः । अन्यैर्नानाद्रुमैरिष्टैरिष्टां युक्तां परिप्लुताम्
असंख्यैर्मन्दिरै रम्यैरत्युच्चैरपि संस्कृताम् । रत्नेन्द्रसारनिर्माणैर्मुक्तामाणिक्यभूषितैः
माणिक्यहीरकैश्चित्रैः सद्रत्नकलशान्वितैः । मणिभिर्निर्मितैरिष्टैः सोपाननिकरैर्वरैः
कपाटैः कठिनैर्दव्यैरर्गलाकीलकैर्युताम् । हरिन्मणीनां स्तम्भानां कदम्बैरपि संयुतैः
नानाचित्रैर्विचित्रैश्च सुचित्रैश्च परिष्कृतैः । दर्पणैः सूक्ष्मवस्त्रैश्च शोभितैः श्वेतचामरैः
प्राङ्गणैः पद्मरागाद्यरिन्द्रनीलपरिष्कृताम् । वीथीभी रत्नखचितैराजमार्गैः समन्विताम्
ग्रीष्मध्याह्नसूर्याभां ज्वलितां रत्नतेजसा । गवाक्षलक्षैः संयुक्तां वाजिशालापरिष्कृताम्
दृष्ट्वा च द्वारकां रम्यां ते देवा विस्मयं ययुः । प्रसन्नवदनो देवो लाङ्गली भगवानजः
सस्मार यदुवंशानां समूहमुग्रसेनकम् । वसुदेवं देवकीं च पाण्डवांश्च समातृकान्
नन्दं यशोदां गोपालान्राजेन्द्रमुनिपुंगवाम् । गन्धर्वान्किन्नरांश्चैव सहितो यदुपुंगवैः
नन्दो यशोदा गोपाश्च जनन्या सह पाण्डवाः । गन्धर्वाः किन्नराश्चैव विद्याधर्यश्च नारद
किन्नर्यश्चापि नर्तक्यो गायका वाद्यभाण्डकाः । भिक्षुका भाण्डकाश्चैव भट्टाश्चगणकास्तथा
नानादेशो द्भवा भूपा वैद्याश्चान्ये च मानवाः । संन्यासिनश्च यतयोऽवधूता ब्रह्मचारिणः
आययुर्मुनयः सर्वे सशिष्याः सिद्धपुंगवाः । सनकश्च सनन्दश्च त्तीयश्च सनातनः
सनत्कुमारो भगवाञ्ज्ञानिनां च गुरोर्गुरुः । शिष्यैस्त्रिकोटिभिः सार्ध पञ्चवर्षा दिगम्बरः
शिष्यैस्त्रिलक्षैः सहितो दुर्वासा भगवानजः । लक्षशिष्यैः कश्यपश्च वाल्मीकिश्च त्रिलक्षकैः
लक्षशिष्यैर्गौ तमश्च कौटिभिश्च बृहस्पतिः । शुक्रस्त्रिकोटिभिः सार्ध भरद्वाजश्च लक्षकैः
शिष्यैस्त्रिकोटिभिः सार्धमङ्गिरा भगवानजः । वसिष्ठः कोटिभिः शिष्यैः प्रचेताः कोटिभिस्तथा
त्रिलक्षैश्च पुलस्त्यश्चाप्यगस्त्यः कोटिभिः सह । पुलहो लक्षशिष्यैश्च क्रतुर्लक्षैस्थैव च
अत्रिस्त्रिकोटिभिः शिष्यैर्भृगुश्च पञ्चकोटिभिः । त्रिकोटिभिर्मरीचिश्च शतानन्दः सहस्रकैः
सार्ध त्रिकोटिभिः शिष्यैर्ऋष्यशृङ्गो विभाण्डकः । पापिनिः कोटिभिः शिष्यैर्लक्षैः कात्यायनस्तथा