ईशाने चापि पूर्वस्मिन्पश्चिमे च तथोत्तरे । शिबिरस्य जलं भद्रमन्यत्राशुभमेव च
दीर्घे प्रस्थे समानं च न कुर्यान्मन्दिरे बुधः । चतुरस्रे गृहे कारो गृहिणां धननाशनम्
दीर्घप्रस्थः परिमितो नेत्राङ्केनापि संहृतम् । शून्येन रहितं भद्रं शून्यं शून्यप्रदं नृणाम्
प्रस्थे हस्तद्वयात्पूर्वं दीर्घे हस्तत्रयं तथा । गृहाणां शुभदं द्वारं प्राकारस्य गृहस्य च
न मध्यदेशे कर्तव्यं किंचिन्न्यूनाधिके शुभम् । चतुरस्रं चन्द्रवेधं शिबिरं मङ्गलप्रदम्
अभद्रदं सूर्यवेधं शिबिरं मङ्गलप्रदम् । अभद्रदं सूर्यवेधं प्राङ्गणं च तथैव च
शिबिराभ्यन्तरे भद्रा स्थापिता तुलसी नृणाम् । धनपुत्रप्रदात्री च पुण्यदा हरिभक्तिदा
प्रभाते तुलसीं दृष्ट्वा स्वर्णदानफलं लभेत् । मालती यूथिका कुन्दं माधवी केतकी तथा
नागेश्वरं मल्लिकां च काञ्चनं बकुलं शुभम् । अपराजिता च शुभदा तेषामुद्यानमीप्सितम्
पूर्वे च दक्षिणे चैव शुभदं नात्र संशयः । ऊर्ध्वं षोडशहस्तेभ्यो नैव कुर्याद्गृहं गृही
उर्ध्वं विंशतिहस्तेभ्यः प्राकारं न शुभप्रदम् । सूत्रधारं तैलाकारं स्वर्णकारं च हीरकम्
वाटीमूले ग्राममध्ये न कुर्यात्स्थापनं बुधः । ब्राह्मणं क्षत्त्रियं वैश्यं सच्छूद्रं गणकं शुभम्
भट्टं वैद्यं पुष्पकारं स्थापयेच्छिबिरान्तिके । प्रस्थे च परिखामानं शतहस्तं प्रशस्तकम्
परितः शिबिराणां च गम्भीरं दशहस्तकम् । संकेतपूर्वकं चैव परिखाद्वारमीप्सितम्
शत्रोरगम्यं मित्रस्य गम्यमेव सुखेन च । शाल्मलीनां तिन्तिडीनां हिन्तालानां तथैव च
निम्बाणां सिन्धुवाराणां बदरीणामभद्रकम् । धत्तूराणां वटानां चाप्येरण्डानामवाञ्छितम्
एतेषामतिरिक्तानां शिबिरे काष्ठमीप्सितम् । वृक्षं च वज्रहस्तं च भूधरो वर्जयेदधः
पुत्रदारधनं हन्यादित्याह कमलोद्भवः । कथितं लोकशिक्षार्थं कुरु काष्ठं विना पुरीम्
शुभक्षणं चाप्यधुना गच्छ वत्स यथासुखम् । विश्वकर्मा हरिं नत्वा जगाम् पक्षिणा सह
समुद्रस्य समीपं च वटमूलं मनोहरम् । सुष्वाप तत्र नक्तं च कारुश्च पक्षिणा सह
स्वप्ने द्वारवतीं रम्यां ददर्श गरुडस्तथा । यत्किंचित्कथितं कारुं कृष्णेन परमात्मना
तदेव लक्षणं सर्वं ददर्श नगरे मुने । कारुं हसन्ति स्वप्ने च सर्वे ते शिल्पकारिणः
गरुडं गरुडाश्चान्ये बलवन्तश्च पक्षिणः । बुद्धो ददर्श गरुडो विश्वकर्मा च लज्जितः
अतीव द्वारकां रम्यां शतयोजनविस्तृताम् । ब्रह्मादीनां च नगरं विजित्य च विराजिताम्
अथ चतुरधिकशततमोऽध्यायः नारायण उवाच एतस्मिन्नन्तरे ब्रह्मा भवान्या च भवः स्वयम् । अनन्तश्चापि धर्मश्च भास्करश्च हुताशनः
कुबेरो वरुणश्चैव पवनश्च यमस्तथा । महेन्द्रश्चपि चन्द्रश्च रुद्राश्चैकादशैव ते
अन्ये देवाश्च मुनयो वसवः सप्त एव च । आदित्याश्चापि दैत्याश्च गन्धर्वाः किन्नरास्तथा
आययुर्द्वारकां द्रष्टुं श्रीकृष्णं च बलं तथा । आगच्छन्तं च सहसा वटमूलं मनोहरम्
दृष्ट्वा च देवताः सर्वास्तुष्टुवुः पुरुषोत्तमम् । आकाशाच्च विमानैश्च संप्राप्य वटमूलकम्
ददृशुर्द्वारकां रम्यामतीव सुमनोहरम् । मुक्तामाणिक्यहीरेणा रत्नराजिविराजिताम्