हे कारो तिन्तिडीवृक्षो यत्नात्तं परिवर्जयेत् । शतेन धनहानिः स्यात्प्रजाहानिर्भवेद्ध्रुवम्
शिबिरेऽतिनिषिद्धश्च नगरे किंचिदेव च । न निषिद्धः प्रसिद्धश्च ग्रामेषु नगरेषु च
विद्यामतिनिषिद्धश्च प्राज्ञस्तं परिवर्जयेत् । खर्जूरश्च गहुश्चैव निषिद्धः शिबिरे तथा
न निषिद्धः प्रसिद्धश्च ग्रामेषु नगरेषु च । वृक्षश्च चणकादीनां धान्यं च मङ्गलप्रदम्
ग्रामेषु नगरे चापि शिबिरे च तथैव च । इक्षुवृक्षश्च शुभदः संततं शुभदस्तथा
अशोकश्च शिरीषश्च कदम्बश्च शुभप्रदः । कच्चिद्धरिद्रा शुभदा शुभदश्चाऽऽर्द्रकस्तथा
हरीतकी च शुभदा ग्रामेषु नगरेषु च । न वाद्या भद्रदा नित्यं तथा चाऽऽमलकी घ्रुवम्
गजानामस्थि शुभदमश्वानां च तथैव च । कल्याणमुच्चैःश्रवसां वास्तौ स्थापनकारिणाम्
न शुभप्रदमन्येषामुच्छिन्नकारणं परम् । वानराणां नराणां च गर्दभानां गवामपि
कुक्कुराणां शृगालानां मार्जाराणामभद्रकम् । भेटकानां सूकराणां सर्वेषां च शुभप्रदम्
ईशाने चापि पूर्वस्मिन्पश्चिमे च तथोत्तरे । शिबिरस्य जलं भद्रमन्यत्राशुभमेव च
दीर्घे प्रस्थे समानं च न कुर्यान्मन्दिरे बुधः । चतुरस्रे गृहे कारो गृहिणां धननाशनम्
दीर्घप्रस्थः परिमितो नेत्राङ्केनापि संहृतम् । शून्येन रहितं भद्रं शून्यं शून्यप्रदं नृणाम्
प्रस्थे हस्तद्वयात्पूर्वं दीर्घे हस्तत्रयं तथा । गृहाणां शुभदं द्वारं प्राकारस्य गृहस्य च
न मध्यदेशे कर्तव्यं किंचिन्न्यूनाधिके शुभम् । चतुरस्रं चन्द्रवेधं शिबिरं मङ्गलप्रदम्
अभद्रदं सूर्यवेधं शिबिरं मङ्गलप्रदम् । अभद्रदं सूर्यवेधं प्राङ्गणं च तथैव च
शिबिराभ्यन्तरे भद्रा स्थापिता तुलसी नृणाम् । धनपुत्रप्रदात्री च पुण्यदा हरिभक्तिदा
प्रभाते तुलसीं दृष्ट्वा स्वर्णदानफलं लभेत् । मालती यूथिका कुन्दं माधवी केतकी तथा
नागेश्वरं मल्लिकां च काञ्चनं बकुलं शुभम् । अपराजिता च शुभदा तेषामुद्यानमीप्सितम्
पूर्वे च दक्षिणे चैव शुभदं नात्र संशयः । ऊर्ध्वं षोडशहस्तेभ्यो नैव कुर्याद्गृहं गृही
उर्ध्वं विंशतिहस्तेभ्यः प्राकारं न शुभप्रदम् । सूत्रधारं तैलाकारं स्वर्णकारं च हीरकम्
वाटीमूले ग्राममध्ये न कुर्यात्स्थापनं बुधः । ब्राह्मणं क्षत्त्रियं वैश्यं सच्छूद्रं गणकं शुभम्
भट्टं वैद्यं पुष्पकारं स्थापयेच्छिबिरान्तिके । प्रस्थे च परिखामानं शतहस्तं प्रशस्तकम्
परितः शिबिराणां च गम्भीरं दशहस्तकम् । संकेतपूर्वकं चैव परिखाद्वारमीप्सितम्
शत्रोरगम्यं मित्रस्य गम्यमेव सुखेन च । शाल्मलीनां तिन्तिडीनां हिन्तालानां तथैव च
निम्बाणां सिन्धुवाराणां बदरीणामभद्रकम् । धत्तूराणां वटानां चाप्येरण्डानामवाञ्छितम्
एतेषामतिरिक्तानां शिबिरे काष्ठमीप्सितम् । वृक्षं च वज्रहस्तं च भूधरो वर्जयेदधः
पुत्रदारधनं हन्यादित्याह कमलोद्भवः । कथितं लोकशिक्षार्थं कुरु काष्ठं विना पुरीम्
शुभक्षणं चाप्यधुना गच्छ वत्स यथासुखम् । विश्वकर्मा हरिं नत्वा जगाम् पक्षिणा सह
समुद्रस्य समीपं च वटमूलं मनोहरम् । सुष्वाप तत्र नक्तं च कारुश्च पक्षिणा सह