सर्वत्र सिद्धं निलयमुग्रसेनस्य भूभृतः । आश्रमं सर्वतोभद्रं वसुदेवस्य मत्पितुः
विश्वकर्मोवाच के ते वृक्षाः प्रशस्ताश्च निषिद्धाश्चापि केचन । भद्राभद्रप्रदाश्चापि तान्वदस्व जगद्गुरो
केषामस्थिनियुक्तं च शिबिरं च शुभाशुभम् । दिशि कुत्र जलं भद्रमभद्रं च वद प्रभो
भद्रप्रदश्च को वृक्षो दिशि कृत्र प्रवर्तते । किं प्रमाणं गृहाणां च प्राङ्गणानां सुरेश्वर
मङ्गलं कुसुमोद्यानं दिशि कुत्र तरोस्तथा । प्राकाराणां किं प्रमाणं परिखाणां सुरेश्वर
द्वाराणां च गृहाणां च प्राकाराणां प्रमाणकम् । कस्य कस्य तरोः काष्ठं प्रशस्तं शिबिरे प्रभो
अमङ्गलं वा केषां च सर्वं मां वक्तुमर्हसि
श्रीभगवानुवाच आश्रमे नारिकेलश्च गृहिणां च धनप्रदः । शिबिरस्य यदीशाने पूर्वे पुत्रप्रदस्तरुः
सर्वत्र मङ्गलार्हश्च तरुराजो मनोहरः । रसालवृक्षः पूर्वस्मिन्नृणां संपत्प्रदस्तथा
शुभप्रदश्च सर्वत्र सुरकारो निशामय । बिल्वश्च पनसश्चैव जम्बीरो बदरी तथा
प्रजाप्रदश्च पूर्वस्मिन्दक्षिणे धनदस्तथा । संपत्प्रदश्च सर्वत्र यतो हि वर्धते गृही
जम्बूवृक्षश्च दाडिम्बः कदल्याम्रातकस्तथा । बन्धुप्रदश्च पूर्वस्मिन्दक्षिणे मित्रदस्तथा
सर्वत्र शुभदश्चैव धनपुत्रशुभप्रदः । हर्षप्रदो गुवाकश्च दक्षिणे पश्चिमे तथा
ईशाने सुखदश्चैव सर्वत्रैव निशामय । सर्वत्र चम्पकः शुद्धो भुवि भद्रप्रदस्तथा
अलाबुश्चापि कूष्माण्डमायाम्बुश्च सकिंशुकः । खर्जूरी कर्कटी चापि शिबिरे मङ्गलप्रदा
वास्तूककारबिल्वश्च वार्ताकश्च शुभप्रदः । लताफलं च शुभदं सर्वं सर्वत्र निश्चितम्
प्रशस्तं कथितं कारो निषिद्धं च निशामय । वन्यवृक्षो निषिद्धश्च शिबिरे नगरेऽपि च
वटो निषिद्धः शिबिरे नित्यं चोरभयं यतः । नगरेषु प्रसिद्धश्च दर्शनात्पुण्यदस्तथा
निषिद्धः शाल्मलिश्चैव शिबिरे नगरे पुरे । दुःखप्रदश्च सततं भूमिपानां सदाऽपि च
न निषिद्धः प्रसिद्धश्च ग्रामेषु नगरेषु च । विद्यामतिनिषिद्धस्तु सततं दुःखदस्तदा
हे कारो तिन्तिडीवृक्षो यत्नात्तं परिवर्जयेत् । शतेन धनहानिः स्यात्प्रजाहानिर्भवेद्ध्रुवम्
शिबिरेऽतिनिषिद्धश्च नगरे किंचिदेव च । न निषिद्धः प्रसिद्धश्च ग्रामेषु नगरेषु च
विद्यामतिनिषिद्धश्च प्राज्ञस्तं परिवर्जयेत् । खर्जूरश्च गहुश्चैव निषिद्धः शिबिरे तथा
न निषिद्धः प्रसिद्धश्च ग्रामेषु नगरेषु च । वृक्षश्च चणकादीनां धान्यं च मङ्गलप्रदम्
ग्रामेषु नगरे चापि शिबिरे च तथैव च । इक्षुवृक्षश्च शुभदः संततं शुभदस्तथा
अशोकश्च शिरीषश्च कदम्बश्च शुभप्रदः । कच्चिद्धरिद्रा शुभदा शुभदश्चाऽऽर्द्रकस्तथा
हरीतकी च शुभदा ग्रामेषु नगरेषु च । न वाद्या भद्रदा नित्यं तथा चाऽऽमलकी घ्रुवम्
गजानामस्थि शुभदमश्वानां च तथैव च । कल्याणमुच्चैःश्रवसां वास्तौ स्थापनकारिणाम्
न शुभप्रदमन्येषामुच्छिन्नकारणं परम् । वानराणां नराणां च गर्दभानां गवामपि
कुक्कुराणां शृगालानां मार्जाराणामभद्रकम् । भेटकानां सूकराणां सर्वेषां च शुभप्रदम्