श्रीकृष्ण उवाच हे समुद्र महाभाग स्थलं च शातयोजनम् । देहि मे नगरार्थं च पश्चाद्दास्यामि निश्चितम्
नगरं कुरु हे कारो त्रिषु लोकेषु दुर्लभम् । रमणीयं च सर्वेषां कमनीयं च योषिताम्
वाञ्छितं चापि भक्तानां वैकुण्ठसदृशं परम् । सर्वेषामपि स्वर्गाणां परं पारमभीप्सितम्
दिवानिशं खगश्रेष्ठ संनिधौ विश्वकर्मणः । स्थितिं कुरु महाभाग यावन्निर्माति द्वारकाम्
दिवानिशं च मत्पार्श्वे चक्रश्रेष्ठ स्थितिं कुरु । ओमित्युक्त्वा तु प्रययुः सर्वे चक्रं विना मुने
कंसस्य पितरं भद्रमुग्रसेनं महाबलम् । नृपं चकार नगरे क्षत्रियाणां सतामपि
विजित्य च जरासंधं निहत्य यवनं तथा । उपायेन महाभाग निर्माणक्रममीश्वरः
श्रीभगवानुवाच शतयोजनपर्यन्तं नगरं सुमनोहरम् । पद्मरागैर्मरकतैरिन्द्रनीलैरनुत्तमैः
रुचकैः पारिभद्रैश्च पलङ्कैश्च स्यमन्तकैः । गन्धकैर्गालिमैश्चैव चन्द्रकान्तादिभिस्तथा
सूर्यकान्तादिभिश्चैव पुत्रैश्च स्फटिकाकृतैः । हरिद्वर्णैश्च मणिभिः श्यामैर्गौरमुखैश्चषैः
गोरोचनाभिः पीतैश्च दाडिमीबीजरूपकैः । पद्मबीजनिभैश्चैव नीलैः कमलवर्णकैः
मणिभिः कज्जलाकारैरुज्ज्वलैश्च परिष्कृतैः । श्वेतचम्पकवर्णाभैस्तप्तकाञ्चनसंनिभैः
स्वर्णमूल्यशतगुणैरीषद्रक्तैः सुशोभनैः । गरिष्ठैश्च वरिष्ठैश्च मणिश्रेष्ठैश्च पूजितैः
यथाविधानं यद्योगं यत्र यन्मुक्तमीप्सितम् । मणीनां हरणं चैव यक्षसंघा हिमालयात्
दिवानिशं करिष्यन्ति यावन्निर्माणपूर्वकम् । यक्षैश्च सप्तभिर्लक्षैः कुबेरप्रेरितैरपि
वेताललक्षैः कूष्माण्डलक्षैः शंकरयोजितैः । दानवैर्ब्रह्मरक्षोभिः शैलकन्यानियोजितैः
कुरु दिव्यं च पत्नीनां सहस्राणां च षोडश । अन्यपत्नीजनस्यापि चाष्टाधिकशतस्य च
शिबिरं परिखायुक्तमुच्चैः प्राकारवेष्टितम् । युक्तद्वादशशालं च सिंहद्वारपरिष्कृतम्
युक्तं चित्रैर्विचित्रैश्च कृत्रिमैश्च कपाटकैः । निषिद्धवृक्षरहितं प्रसिद्धैश्च परिष्कृतम्
सुलक्षणं चन्द्रवेधं प्राङ्गणं च तथैव च । यदूनामाश्रमं दिव्यं किंकराणां तथैव च
सर्वत्र सिद्धं निलयमुग्रसेनस्य भूभृतः । आश्रमं सर्वतोभद्रं वसुदेवस्य मत्पितुः
विश्वकर्मोवाच के ते वृक्षाः प्रशस्ताश्च निषिद्धाश्चापि केचन । भद्राभद्रप्रदाश्चापि तान्वदस्व जगद्गुरो
केषामस्थिनियुक्तं च शिबिरं च शुभाशुभम् । दिशि कुत्र जलं भद्रमभद्रं च वद प्रभो
भद्रप्रदश्च को वृक्षो दिशि कृत्र प्रवर्तते । किं प्रमाणं गृहाणां च प्राङ्गणानां सुरेश्वर
मङ्गलं कुसुमोद्यानं दिशि कुत्र तरोस्तथा । प्राकाराणां किं प्रमाणं परिखाणां सुरेश्वर
द्वाराणां च गृहाणां च प्राकाराणां प्रमाणकम् । कस्य कस्य तरोः काष्ठं प्रशस्तं शिबिरे प्रभो
अमङ्गलं वा केषां च सर्वं मां वक्तुमर्हसि
श्रीभगवानुवाच आश्रमे नारिकेलश्च गृहिणां च धनप्रदः । शिबिरस्य यदीशाने पूर्वे पुत्रप्रदस्तरुः
सर्वत्र मङ्गलार्हश्च तरुराजो मनोहरः । रसालवृक्षः पूर्वस्मिन्नृणां संपत्प्रदस्तथा
शुभप्रदश्च सर्वत्र सुरकारो निशामय । बिल्वश्च पनसश्चैव जम्बीरो बदरी तथा