एवं ब्रह्मण्यदेवस्य चरित्रं शृणु नारद । इदं स्तोत्रं महापुण्यं यः पठेद्भक्तिपूर्वकम्
श्रीकृष्णे निश्चलां भक्तिं लभते नात्र संशयः । अस्पष्टकीर्तिः सुयशा मूर्खो भवति पण़्डितः
इह लोके सुखं प्राप्य यात्यन्ते श्रीहरेः पदम् । तत्र नित्यं हरेर्दास्यं लभते नात्र संशयः
इतिo श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo मुनिपत्नीस्तोत्रं नाम द्व्यधिकशततमोऽध्यायः
अथ त्र्यधिकशततमोऽध्यायः नारायण उवाच अथाऽऽगत्य मधुपुरीं प्रणम्य पितरं विभुः । सबलो वटमूले च सस्मार गरुडं हरिः
सादरं लवणोदं च विश्वकर्माणमीप्सितम् । तत्याज गोपवेषं च नृपवेषं दधार सः
एतस्मिन्नन्तरे चक्रमाजगाम् हरिं स्वयम् । परं सुदर्शनं नाम सूर्यकोटिसमप्रभम्
तेजसा हरिणा तुल्यं परं वैरिविमर्दनम् । अव्यर्थमस्त्रमस्त्राणां प्रवरं परमं परम्
रत्नयानं पुरः कृत्वा गरुडो हरिसंनिधिम् । विश्वकर्मा सशिष्यश्च जलधिः कम्पितस्तथा
हरिं प्रणेमुस्ते सर्वे मूर्ध्ना च भक्तिपूर्वकम् । सस्मितः सादरं यत्नात्तानुवाच क्रमाद्विभुः
श्रीकृष्ण उवाच हे समुद्र महाभाग स्थलं च शातयोजनम् । देहि मे नगरार्थं च पश्चाद्दास्यामि निश्चितम्
नगरं कुरु हे कारो त्रिषु लोकेषु दुर्लभम् । रमणीयं च सर्वेषां कमनीयं च योषिताम्
वाञ्छितं चापि भक्तानां वैकुण्ठसदृशं परम् । सर्वेषामपि स्वर्गाणां परं पारमभीप्सितम्
दिवानिशं खगश्रेष्ठ संनिधौ विश्वकर्मणः । स्थितिं कुरु महाभाग यावन्निर्माति द्वारकाम्
दिवानिशं च मत्पार्श्वे चक्रश्रेष्ठ स्थितिं कुरु । ओमित्युक्त्वा तु प्रययुः सर्वे चक्रं विना मुने
कंसस्य पितरं भद्रमुग्रसेनं महाबलम् । नृपं चकार नगरे क्षत्रियाणां सतामपि
विजित्य च जरासंधं निहत्य यवनं तथा । उपायेन महाभाग निर्माणक्रममीश्वरः
श्रीभगवानुवाच शतयोजनपर्यन्तं नगरं सुमनोहरम् । पद्मरागैर्मरकतैरिन्द्रनीलैरनुत्तमैः
रुचकैः पारिभद्रैश्च पलङ्कैश्च स्यमन्तकैः । गन्धकैर्गालिमैश्चैव चन्द्रकान्तादिभिस्तथा
सूर्यकान्तादिभिश्चैव पुत्रैश्च स्फटिकाकृतैः । हरिद्वर्णैश्च मणिभिः श्यामैर्गौरमुखैश्चषैः
गोरोचनाभिः पीतैश्च दाडिमीबीजरूपकैः । पद्मबीजनिभैश्चैव नीलैः कमलवर्णकैः
मणिभिः कज्जलाकारैरुज्ज्वलैश्च परिष्कृतैः । श्वेतचम्पकवर्णाभैस्तप्तकाञ्चनसंनिभैः
स्वर्णमूल्यशतगुणैरीषद्रक्तैः सुशोभनैः । गरिष्ठैश्च वरिष्ठैश्च मणिश्रेष्ठैश्च पूजितैः
यथाविधानं यद्योगं यत्र यन्मुक्तमीप्सितम् । मणीनां हरणं चैव यक्षसंघा हिमालयात्
दिवानिशं करिष्यन्ति यावन्निर्माणपूर्वकम् । यक्षैश्च सप्तभिर्लक्षैः कुबेरप्रेरितैरपि
वेताललक्षैः कूष्माण्डलक्षैः शंकरयोजितैः । दानवैर्ब्रह्मरक्षोभिः शैलकन्यानियोजितैः
कुरु दिव्यं च पत्नीनां सहस्राणां च षोडश । अन्यपत्नीजनस्यापि चाष्टाधिकशतस्य च
शिबिरं परिखायुक्तमुच्चैः प्राकारवेष्टितम् । युक्तद्वादशशालं च सिंहद्वारपरिष्कृतम्
युक्तं चित्रैर्विचित्रैश्च कृत्रिमैश्च कपाटकैः । निषिद्धवृक्षरहितं प्रसिद्धैश्च परिष्कृतम्
सुलक्षणं चन्द्रवेधं प्राङ्गणं च तथैव च । यदूनामाश्रमं दिव्यं किंकराणां तथैव च