पीताम्बरधरं देवं वनमालविभूषितम् । लीलापाङ्गतरङ्गैश्च निन्दितानङ्गमूर्च्छितम्
अलक्तभवनं तद्वत्पादपद्मं सुशोभनम् । कौस्तुभोद्भासिताङ्गं च दिव्यमूर्तिं मनोहरम्
ईषद्धास्यप्रसन्नं च सुवेषं प्रस्तुतं सुरैः । देवदेवं जगन्नाथं त्रेलोक्यमोहनं परम्
कोटिकन्दर्पलीलाभं कमनीयमनीश्वरम् । अमूल्यरत्ननिर्माणभूषणौघेन भूषितम्
वरं वरण्यं वरदं वरदानामभीप्सितम् । चतुर्णामपि वेदानां कारणानां च कारणम्
पाठार्थ मत्प्रियस्थानमागतोऽसि च मायया । पाठं ते लोकशिक्षार्थं रमणं गमनं रणम्
गुरुपत्न्युवाच अद्य मे सफलं जन्म सफलं जीवनं मम । पातिव्रत्यं च सफलं सफलं च तपोवनम्
मद्दक्षहस्तः सफलो दत्तं येनान्नमीप्सितम् । तदाश्रमं तीर्थपरं तीर्थपादपदाङ्कितम्
त्वत्पादरजसा पूता गृहाः प्राङ्गणमुत्तमम् । त्वत्पादपद्मं दृष्ट्वा चैवाऽऽवयोर्जन्मखण्डनम्
तावद्दुःखं च शोकश्च तावद्भोगश्च रोगकः । तावज्जन्मानि कर्माणि क्षुत्पिपासादिकानि च
यावत्त्वत्पादपद्मस्य भजनं नास्ति दर्शनम् । हे कालकाल भगवन्स्रष्टुः संहर्तुरीश्वर
कृपां कुरु कृपानाथ मायामोहनिकृन्तन । इत्युक्त्वा साश्रुनेत्रा सा क्रोडे कृत्वा हरिं पुनः स्वस्तनं पाययामास प्रेम्णा च देवकी यथा
श्रीकृष्ण उवाच मातस्त्वं मां कथं स्तौषि बालं दुग्धमुखं सुतम् । गच्छ गोलोकमिष्टं च स्वामिना सहसाप्रतम्
त्यक्त्वा प्राकृतिकं मिथ्या नश्वरं च कलेवरम् । विधाय निर्मलं देहं जन्ममृत्युजराहरम्
इत्युक्तवा चतुरो वेदान्पठित्वा मुनिपुंगवात् । मासेन परया भक्त्या दत्त्वा पुत्रं मृतं पुरा
रत्नानां च त्रिलक्षं च मणीनां पञ्चलक्षणम् । हीरकाणां चतुर्लक्षं मुक्तानां पञ्चलक्षकम्
माणिक्यानां द्विलक्षं च वस्त्रं त्रैलोक्यदुर्लभम् । हारं च दुर्गया दतं हस्तरत्नाङ्गुलीयकम्
दशकोटिं सुवर्णानां गुरवे दक्षिणां ददौ । अमूल्यरत्ननिर्माणं नारीसर्वाङ्गभूषणमा
गुरुप्रियायै प्रददौ वह्निशुद्धांशुकं वरम् । मुनिर्दत्त्वा च पुत्राय तःसर्वं प्रियया सह
सद्रत्नरथमारुह्य ययौ गोलोकमुत्तमम् । तमद्भूतं हरिं दृष्ट्वा प्रययौ स्वालयं मुदा
एवं ब्रह्मण्यदेवस्य चरित्रं शृणु नारद । इदं स्तोत्रं महापुण्यं यः पठेद्भक्तिपूर्वकम्
श्रीकृष्णे निश्चलां भक्तिं लभते नात्र संशयः । अस्पष्टकीर्तिः सुयशा मूर्खो भवति पण़्डितः
इह लोके सुखं प्राप्य यात्यन्ते श्रीहरेः पदम् । तत्र नित्यं हरेर्दास्यं लभते नात्र संशयः
इतिo श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo मुनिपत्नीस्तोत्रं नाम द्व्यधिकशततमोऽध्यायः
अथ त्र्यधिकशततमोऽध्यायः नारायण उवाच अथाऽऽगत्य मधुपुरीं प्रणम्य पितरं विभुः । सबलो वटमूले च सस्मार गरुडं हरिः
सादरं लवणोदं च विश्वकर्माणमीप्सितम् । तत्याज गोपवेषं च नृपवेषं दधार सः
एतस्मिन्नन्तरे चक्रमाजगाम् हरिं स्वयम् । परं सुदर्शनं नाम सूर्यकोटिसमप्रभम्
तेजसा हरिणा तुल्यं परं वैरिविमर्दनम् । अव्यर्थमस्त्रमस्त्राणां प्रवरं परमं परम्
रत्नयानं पुरः कृत्वा गरुडो हरिसंनिधिम् । विश्वकर्मा सशिष्यश्च जलधिः कम्पितस्तथा
हरिं प्रणेमुस्ते सर्वे मूर्ध्ना च भक्तिपूर्वकम् । सस्मितः सादरं यत्नात्तानुवाच क्रमाद्विभुः