देवांश्च भोजयामास ब्राह्मणांश्चापि सादरम् । ये ये समाययुर्यज्ञे तेच दत्त्वा शुभाशिषम्
कृण्णाय बलदेवाय प्रहृष्टाः प्रययृर्गुहम् । नन्दः सभार्यो निर्वाप्य शुभकर्म सुतस्य वै
क्रोडे कृत्वा बलं कृष्णं चुचुम्ब वदनं तयोः । उचचै रुरोद नन्दश्च यशोदा च पतिव्रता श्रीकृष्णस्तं समाश्वास्य बोधयामास यत्नतः
श्रीकृष्ण उवाच सानन्दं गच्छ हे मातर्यशोदे तातमत्वरम् । त्वमेव माता पोष्ट्री त्वं पिता च परमार्थतः
अवन्तिनगरं तात यास्यामि सबलोऽधुना । मुनेः सांदीपनेः स्थानं वेदपाठार्थमीप्सितम्
तत आगत्य सुचिरं काले भवति दर्शनम् । कामः करोति कलनं स च भेदं करोति च
सर्वं कालकृतं मातर्भेदं संमीलनं नृणाम् । सुखं दुःखं च हर्षं च शोकं च मङ्गलालयम्
मया दत्तं च तत्त्वं च योगिनामपि दुर्लभम् । सर्वं नन्दश्च सानन्दं त्वामेव कथयिष्यति
इत्युक्त्वा जगतां नाथो वसुदेवसभां ययौ । तदाज्ञया क्षणं प्राप्य ययौ संदीपनेर्गूहम्
वसुदेवं देवकीं च संभाष्य विनयेन च । नन्दः सभार्यः प्रययौ हृदयेन विदूयता
मुक्तामणिं सुवर्ण च माणिक्यं हीरकं तथा । वह्निशुद्धांशुकं रत्नं नन्दाय देवकी ददौ
श्वेताश्वं च गजेन्द्रं च सुवर्णरथमुत्तमम् । नन्दाय कृष्णः प्रददौ वसुदेवश्च सादरम्
तयोरनुव्रजन्विप्रा देवकीप्रमुखाः स्त्रियः । वसुदेवस्तथाऽक्रूरोऽप्युद्धवश्च ययौ मुदा
कालिन्दीनिकटं गत्वा ते सर्वे रुरुदुः शुचा । परस्परं च संभाष्य ते सर्वे स्वालयं ययुः
कुन्ती सपुत्रा विधवा वसुदेवाज्ञया मुने । नानारत्नमणिं प्राप्य प्रययौ स्वरलयं मुदा
वसुतेवो देवकी च पुत्रकल्याणहेतवे । नानारत्नमणिं वस्त्रं मुवर्णं रजतं तथा
मुक्तामाणिक्यचहारं च मिष्टान्नं च सुधोपमम् । भट्टेम्यो ब्राह्मणेभ्यश्च प्रददौ सादरं मुदा
महोत्सवं वेदपाठं हरेर्नामैकमङ्गलम् । विप्राणां भोजनं चैव कारयामास यत्नतः
ज्ञातीनां बान्धवानां च पुरस्कारं यथोचितम् । चकार मणिमाणिक्यमुक्तावस्त्रैर्मनोहरैः
इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo नारादनाo उत्तo भगवदुपनयनं नामैकाधिकशततमोऽध्यायः
द्व्यधिकशततमोऽध्यायः नारायण उवाच कृण्णः सांदीपनेर्गेहं गत्वा च सबलो मुदा । नमश्चकार स्वगुरुं गुरुपत्नीं पतिव्रताम्
शुभाशिषं गृहीत्वा च दत्त्वा रत्नमणिं हरिः । गुरवे तस्य भार्यायै तमुवाच यथोचितम्
श्रीकृष्ण उवाच त्वत्तो विद्यां लभिष्यामि वाञ्छितां वाञ्छितं मम । कृत्वा शुभक्षणं विप्र मां पाठय यथोचितम्
ओमित्युक्त्वा मुनिश्रेष्ठः पूजयामास तं मुदा । मधुपर्कप्राशनेन गवा वस्त्रेण चन्दनैः
मिष्टान्नं भोजयामास ताम्बूलं च सुवासितं । सुप्रियं कथयामास तुष्टाव परमेश्वरम्
सांदीपनिरुवाच परं ब्रह्म परं धाम परमीश परात्पर । स्वेच्छामयं स्वयंज्योतिर्निलिप्तैको निरङ्कुशः
भक्तैकनाथ भक्तेष्ट भक्तानुग्रहविग्रह । भक्तवाञ्छाकल्पतरो भक्तानां प्राणवल्लभ
मायया बालरूपोऽसि ब्रह्मेशशेषवन्दितः । मायया भुवि भूपाल भुवो भारक्षयाय च
योगिनो यं विदन्त्येवं ब्रह्मज्योतिः सनातनम् । ध्यायन्ते भक्तनिवहा ज्योतिरभ्यन्तरे मुदा
द्विभुजं मुरलीहस्तं सुन्दरं श्यामहुपकम् । चन्दनोक्षितसर्वाङ्गं सस्मितं भक्तवत्सलम्