गुणे प्रकृष्टसत्त्वे च प्रशब्दो वर्तते श्रुतौ
त्रिगुणात्मस्वरूपा या सर्वशक्तिसमन्विता
प्रथमे वर्त्तते प्रश्च कृतिस्स्यात्सृष्टिवाचकः
योगेनात्मा सृष्टिविधौ द्विधारूपो बभूव सः
सा च ब्रह्मस्वरूपा स्यान्माया नित्या सनातनी 2.1.
अतएव हि योगीन्द्रः स्त्रीपुंभेदं न मन्यते
स्वेच्छामयस्येच्छया च श्रीकृष्णस्य सिसृक्षया
तदाज्ञया पञ्चविधा सृष्टिकर्मणि भेदतः
गणेशमाता दुर्गा या शिवरूपा शिवप्रिया
ब्रह्मादिदेवैर्मुनिभिर्मनुभिः पूजिता सदा
यशोमङ्गलधर्मश्रीसत्यपुण्यप्रदायिनी
शरणागतदीनार्तपरित्राणपरायणा
सर्वशक्तिस्वरूपा च शक्तिरीशस्य सन्ततम्
बुद्धिर्निद्रा क्षुत्पिपासा च्छाया तन्द्रा दया स्मृतिः
तुष्टिः पुष्टिस्तथा लक्ष्मीर्वृत्तिर्माता तथैव च 2.1.
उक्तः श्रुतौ श्रुतगुणश्चातिस्वल्पो यथागमम्
शुद्धसत्त्वस्वरूपा या पद्मा च परमात्मनः
कान्ता दान्ताऽतिशान्ता च सुशीला सर्वमङ्गला
त्यक्ताऽनुरक्ता पत्युश्च सर्वाद्या च पतिव्रता
सर्वसस्यात्मिका सर्वजीवनोपायरूपिणी
स्वर्गे च स्वर्गलक्ष्मीश्च राजलक्ष्मीश्च राजसु
सर्वेषु प्राणिद्रव्येषु शोभारूपा मनोहरा
वाणिज्यरूपा वणिजां पापिनां कलहङ्करी
चपले चपला भक्तसम्पदो रक्षणाय च
शक्तिर्द्वितीया कथिता वेदोक्ता सर्वसम्मता ।। 2.1.
वाग्बुद्धिविद्याज्ञानाधिदेवता परमात्मनः
सुबुद्धिः कविता मेधा प्रतिभा स्मृतिदा सताम्
व्याख्याबोधस्वरूपा च सर्वसंदेहभञ्जिनी
सर्वसङ्गीतसन्धानतालकारणरूपिणी
यया विना च विश्वौघो मूको मृतसमः सदा