आधारश्च महाविष्णो जलरूपो भवान्स्वयम् । जलाधारो हि गोलोकस्त्वं च स्थावररूपधृक्
मर्वाधारो महान्वायुः श्वासनिः श्वासरूपकः । भक्तानुग्रहदेहस्य नित्यस्य भवतो दिभो
वक्त्रैर्बहुतरैर्वांऽथ त्वया दत्तैः पुरैव च । स्तोतुमिच्छामि त्वद्योगं न दत्तं ज्ञानमैश्वरम्
देवा ऊचुः त्वामनन्तं यदि स्तोतुं देवोऽनन्तो न हीश्वरः । न हि स्वयं विधाता च न हि ज्ञानात्मकः शिवः
मुनीन्द्रा ऊचुः वेदा न शक्ताः स्तोतुं चेत्त्वां चैव ज्ञातुमीश्वरम् । वयं वेदविदः सन्तः किं कुर्मः स्तवनं तव
इदं स्तोत्रं महापुण्यं देवैश्च मुनिमिः कृतम् । यः पठेत्संयतः शुद्धः पूजाकाले च भक्तितः
इह लोके सुखं भुक्त्वा लब्ध्वा ज्ञानं निरञ्जनम् । रत्नायानं समारुह्य गोलोकं स च गच्छति
इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo भगवदुपनयने शाततमोऽयायः
अथैकाधिकशततमोध्यायः नारायण उवाच संस्तूय देवा मुनयो विरेमुर्नहि मानसे । ददृशुः प्राङ्गणे कृष्णं शोभितं पीतवाससा
यथा सौदामिनीयुक्तं नवीनजलदं मुने । बकपङ् क्तियुतं चैव मालतीमालया तथा
कपाले मण्डलाकारकस्तूरीयुक्तचन्दनम् । सकलङ्कं मृगाङ्कं च शोभितं जलदे तथा
द्विभुजं श्यामलंकान्तं राधाकान्तं मनोहरम् । ईषद्धास्यप्रसन्नास्यं भक्तानुग्रहविग्रहम्
रत्नकेयूरवलयरत्नमञ्जीररञ्जितम् । रुदन्तं पितुरुत्सङ्गे बलेन सहितं परम्
अथ मङ्गलकाले च शुभलग्ने मनोरमे । संपीक्षिते ग्रहैः सौम्यैर्जांग्रल्लग्नाधिपे स्थिते
असद्ग्रहैरदृष्टे च सद्ग्रहेक्षित एव च । शुभकर्मसमारम्भं स्वस्तिवाचनपूर्वकम्
चकार वसुदेवश्चाप्याज्ञया सुरविप्रयोः । दत्त्वा सुवर्णशतकं ब्राह्मणाय च सादरम्
देवेन्द्रांश्च मुनीन्द्राश्च नमस्कृत्य पुरोहितम् । गणेशं च दिनेशं च वह्निं च शंकरं शिवाम्
संपूज्य देवषट्कं च साक्षतैर्देवसंसदि । उपचारैः षोडशभिः संयतो भक्तिपूर्वकम्
पुत्राधिवासनं चक्रै वेदमन्त्रेण संसदि । संपूज्य नानादेवांश्च दिक्पालांश्च नवग्रहान्
दत्त्वा पञ्चोपचारांश्च भक्त्या षोडशमातृकाः । दत्त्वा च वसुधारां च सप्तवारान्घृतेन च
चेदिराजं वसुं नत्वा संपूज्य प्रययौ पुनः । वृद्धिश्राद्धं सुनिर्वाप्य यत्किंचिद्दैविकं तथा
यज्ञं कृत्वा तु वेदोक्तं यज्ञसूत्रं ददौ मुदा । वलदेवाग्रचायैव कृष्णाय परमात्मने
गायत्री च ददौ ताभ्यां मुनिः सांदीपनिस्तथा । भिक्षां ददौ च प्रथमं पार्वती परमादरात्
अमूल्यरत्नपात्रस्थं मुक्तामाणिक्यहीरकम् । हीरसारविनिर्माणं पित्रा दत्तं च हारकम्
शुभाशिषं च प्रददौ शुक्लपुष्पेणा दूर्वया । ततोऽदितिर्दितिश्चैव मुनिपत्न्यश्च देवकी
यशोदा रोहिणी हृष्टा सावित्री च सरस्वती । प्रत्येकं प्रददौ भिक्षां मणिकाञ्चनभूषिताम्
देवकन्या नागकन्या राजकन्याः पतिव्रताः । कामिन्यो बान्धवानां च सस्मिताः स्निग्धलोचनाः
इन्द्राणी वरुणानी च पवनानी च रोहिणी । कुबेरपत्नीं स्वाहा च रतिः कामस्य कामिनी
प्रत्येकं प्रददौ भिक्षां रत्नभूषणभूषिताम् । भिक्षां गृहीत्वा भगवान्सबलो भक्तिपूर्वकम्
किंचिद्ददौ च गर्गाय किचित्स्वगुरवे तथा । वैदिकं कर्म निर्वाप्य गर्गाय दक्षिणां ददौ