मिष्टान्नं भोजयामास शीततोयं सुवासितं । ताम्बूलं च वरं रम्यं कर्पूरादिसुवासितम्
अलक्तकं च प्रददौ नखेषु पादपद्मयोः । कुङ्कुमस्यापि रागं च सिषेवे श्वेतचामरैः
मंपुज्य पार्वतीं देवीं मुनिपत्नीः क्रमेण च । पूजयामास विधिवत्पतिपुत्रवतीः सतीः
राजकन्या देवकन्या नागकन्या मनोहराः । मुनिकन्या बन्धुकन्याः पूजयामास सुव्रता
वाद्य नानाविधं रम्यं वादयामास कौतुकात् । मङ्गलं कारयामास भोजयामास ब्रह्मणान्
भैरवीं पूजयामास मथुराग्रामदेवताम् । उपचारैः षोडशभिः षष्ठीं मङ्गलचण्डिकाम्
पुण्यं स्वस्त्ययनं शुद्धं वारयामास मङ्गलम् । वेदांश्च पाठयामास वसुदेवास्य वल्लभा
स्वर्गङ्गासुजलेनैव सुवर्मकलशेन च । स्नापयामास सबलं श्रीकृष्णं पुत्रवत्सला
वस्त्रचन्दनमाल्यैश्च तयोर्वेषं चकार सा । रत्नेन्द्रसारनिर्माणभूषणैश्च मनोहरैः
मातृभूषणभूषाढ्यः सबलः कृष्ण एव च । आययौ च सभां देवमुनीन्द्राणां च नारद
दृष्ट्वा तं जगतां राथमुत्तस्थौ प्रजवेन च । स्वयं विधाता शंभुश्च शेषो धर्मश्च भास्करः
देवाश्च मुनयश्चैव कार्तिकेयो गणेश्वरः । पृथक्पृथक् क्रमेणैव तुष्टाव परमेश्वरम्
ब्रह्मोवाच नाथानिर्वचनोयोऽसि भक्तानुग्रहविग्रहः । वेदानिर्वचनीयं च कस्त्वां स्तोतुमिहेश्वरः
महादेव उवाच देहेषु देहिनां शश्वत्स्थितं निर्लिप्तमेव च । कर्मिणां कर्मणां शुद्धं साक्षिणां साक्षतं विभुम्
अनन्त उवाच किंवा जानाम्यहं नाथ त्वामज्ञोऽनन्तमीश्वरम् । अनन्तकोटिब्रह्माण्डकारणं दुःखतारणम्
महाविष्णोश्च लोम्नां च विवरेषु जलेषु च । सन्ति विश्वान्यसंख्यानि चित्राणि कृत्रिमाणि च
सन्ति सन्तश्च देवाश्च ब्रह्मविष्णुशिवात्मकाः । त्वदंशाः प्रतिबिम्बेषु तीर्थानि भारतं तथा
ब्रह्माण्डैकस्थितोऽहं च सूक्ष्मनागस्वरूपकः । स्थापितश्च त्वया कूर्मे गजेन्द्रे मशको यथा
परमाणुपरं सूक्ष्मं विश्वेषु नास्ति कुत्रचित् । महाविष्णोः परं स्थूलं समो नास्ति च कुत्रचित्
महाविष्णोः परस्त्वं च त्वत्परो नास्ति कश्चन । स्थूलात्स्थूलतरो देवः मूक्ष्मात्सूक्ष्मतमो महान्
आधारश्च महाविष्णो जलरूपो भवान्स्वयम् । जलाधारो हि गोलोकस्त्वं च स्थावररूपधृक्
मर्वाधारो महान्वायुः श्वासनिः श्वासरूपकः । भक्तानुग्रहदेहस्य नित्यस्य भवतो दिभो
वक्त्रैर्बहुतरैर्वांऽथ त्वया दत्तैः पुरैव च । स्तोतुमिच्छामि त्वद्योगं न दत्तं ज्ञानमैश्वरम्
देवा ऊचुः त्वामनन्तं यदि स्तोतुं देवोऽनन्तो न हीश्वरः । न हि स्वयं विधाता च न हि ज्ञानात्मकः शिवः
मुनीन्द्रा ऊचुः वेदा न शक्ताः स्तोतुं चेत्त्वां चैव ज्ञातुमीश्वरम् । वयं वेदविदः सन्तः किं कुर्मः स्तवनं तव
इदं स्तोत्रं महापुण्यं देवैश्च मुनिमिः कृतम् । यः पठेत्संयतः शुद्धः पूजाकाले च भक्तितः
इह लोके सुखं भुक्त्वा लब्ध्वा ज्ञानं निरञ्जनम् । रत्नायानं समारुह्य गोलोकं स च गच्छति
इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo भगवदुपनयने शाततमोऽयायः
अथैकाधिकशततमोध्यायः नारायण उवाच संस्तूय देवा मुनयो विरेमुर्नहि मानसे । ददृशुः प्राङ्गणे कृष्णं शोभितं पीतवाससा
यथा सौदामिनीयुक्तं नवीनजलदं मुने । बकपङ् क्तियुतं चैव मालतीमालया तथा