परापराणां परमा परब्रह्मस्वरूपिणी । यस्याः पादौ समाराध्य वाञ्छितं लभते नरः
शरत्कारे च भक्त्या च सा साक्षान्मम मन्दिरे । सर्वदेवैश्च सहिता सगणा भक्तवात्सला
कृपामयी च कृपया चाऽऽविर्भूता च भारते । धन्योऽहं कृतकृत्योऽहं सफलं जीवनं मम
आगताऽसि यतो दुर्गे परमाद्या च मद्गृहे । एवं सर्वांश्च तुष्टाव क्रमेण च परस्परम्
सर्वान्मुनीन्द्रान्विप्रांश्च गले बद्ध्वांऽशुकं मुदा । प्रत्येकं वासयामास रत्नसिहासने वरे
पूजयामास विधिवत्क्रमेण च पृथक्पृथक् । प्रत्येकं वरयामास ब्रह्मादींश्च सुरानपि
मुनिवर्गान्ब्राह्मणांश्च भक्त्या गर्गं पुरोहितम् । रत्नैः प्रवालैर्मणिभिर्मुवतामाणिक्यहीरकैः
भूषणैर्वसनैश्चैव माल्यैश्च गन्धचन्दनैः । लत्नसिहासने रम्ये सर्वेषां मध्यदेशतः
गणेशं वासयामास पूजार्थं शुभकर्मणि । सप्ततीर्थोदकेनैव सुवर्णकलशेन च
पुष्पजन्द्रनयुक्तेन शीतेन वासितेन च । स्वर्गगङ्गाजलेनैव पुष्करोदकुण्यतः
पञ्चामृतेन शुद्धेन पञ्चगव्येन भक्तितः । हेरम्बं स्नापयामास समुद्रोदेन मन्त्रतः
वरयामास माल्येन पारिजातस्य नारद । रत्नेन्द्रभूषणेनैव वह्निशुद्धेन वाससा
गन्धयन्दनपुष्पैश्च रत्नमाल्याङ्गुलीयकम् । तुष्टाव पार्वतीपुत्रं सर्वदेवाधिपं शुभम् विघ्ननिघ्नकरं शान्तं भगवन्तं सनातनम्
इति श्रीब्रह्मo श्रीकृष्णजन्मखo उत्तo नारदनाo भगवदुपनयने गणेशाभिषेको नाम नवनवतितमोऽध्यायः
अथ शाततमेऽध्यायः नारायण उवाच अथादितिर्दितिश्चैव देवकी रोहिणी रतिः । सरस्वती च सावित्री यशोदा च पतिव्रता
लोबामुद्राऽरुन्धती च अहल्या तारका तथा । ययुस्ताः पार्वतीं दृष्टवा वेगेन मन्दिरादपि
परस्परं च संभाष्य समाश्लिष्य पुनः पुनः । प्रणम्य वेशयामासुर्मन्दिरं रत्ननिर्मितम्
रत्नसिहासने रम्ये वासयामासुरीश्वरीम् । वरयामासुर्माल्येन वाससा रत्नभूषणैः
पारिजातस्य पुष्पं च शक्रानीतं मनोहरम् । ददौ तत्पादपद्मे च देवकी भक्तिपूर्वकम्
सिन्दूरबिन्दुं सीमन्ते भाले चन्दनबिन्दुकम् । कस्तूरीकुङ्कुमादींश्च प्रददौ परितस्तयोः
मिष्टान्नं भोजयामास शीततोयं सुवासितं । ताम्बूलं च वरं रम्यं कर्पूरादिसुवासितम्
अलक्तकं च प्रददौ नखेषु पादपद्मयोः । कुङ्कुमस्यापि रागं च सिषेवे श्वेतचामरैः
मंपुज्य पार्वतीं देवीं मुनिपत्नीः क्रमेण च । पूजयामास विधिवत्पतिपुत्रवतीः सतीः
राजकन्या देवकन्या नागकन्या मनोहराः । मुनिकन्या बन्धुकन्याः पूजयामास सुव्रता
वाद्य नानाविधं रम्यं वादयामास कौतुकात् । मङ्गलं कारयामास भोजयामास ब्रह्मणान्
भैरवीं पूजयामास मथुराग्रामदेवताम् । उपचारैः षोडशभिः षष्ठीं मङ्गलचण्डिकाम्
पुण्यं स्वस्त्ययनं शुद्धं वारयामास मङ्गलम् । वेदांश्च पाठयामास वसुदेवास्य वल्लभा
स्वर्गङ्गासुजलेनैव सुवर्मकलशेन च । स्नापयामास सबलं श्रीकृष्णं पुत्रवत्सला
वस्त्रचन्दनमाल्यैश्च तयोर्वेषं चकार सा । रत्नेन्द्रसारनिर्माणभूषणैश्च मनोहरैः
मातृभूषणभूषाढ्यः सबलः कृष्ण एव च । आययौ च सभां देवमुनीन्द्राणां च नारद