देवकन्या नागकन्या राजकन्याश्च सर्वशः । विद्याधर्यश्च गन्धर्वाश्चाऽऽययुर्वाद्यभाण्डकाः
ब्राह्मणा भिक्षुका भट्टा यतयो ब्रह्मचारिणः । संन्यासिनश्चावधूता योगिनश्च समाययुः
स्त्रीबान्धवाः स्वबन्धूनां वर्गा मातामहस्य च । बन्धूनां बान्धवाः सर्वे स्वाययुः शुभकर्मणि
भीष्मो द्रोणश्च कर्णश्चाप्यश्वत्थामा कृपो द्विजः । सुपुत्रो धृतराष्ट्रश्च सभार्यश्च समाययौ
कुन्ती सपुत्रा विधवा हर्षशोकसमाप्लुता । नानादेशोद्भवा योग्या राजानो राजपुत्रकाः
अत्रिर्वसिष्ठश्च्यवनो भरद्वाजो महातपाः । याज्ञवल्क्यश्च भीमश्च गार्ग्यो गर्गो महातपाः
वत्सः सपुत्रश्च धर्मो जैगीषव्यः पराशरः । पुलहश्च पुलस्त्यश्चाप्यगस्त्यश्वापि सौभरिः
सनकश्च सनन्दश्च तृतीयश्च मनातनः । सनत्कुमारो भगवान्वोढुः पञ्चशिखस्तथा
तुर्वासाश्चाङ्गिरा व्यासो व्यासपुत्रः शुकस्तथा । कुशिकः कौशिको राम ऋष्यशृङ्गो विभाण्डकः
शृङ्गी च वामदेवश्च गौतमश्च गुणार्णवः । क्रतुर्यतिश्चाऽऽरुणिश्च शुक्राचार्यो बृहस्पतिः
अष्टावक्रो वामनश्च वाल्मीकिः पारिभद्रकः । पैलो वैशंपायनश्च प्रचेताः पुरुजित्तथा
भृगुर्मरीचिर्मधुजित्कश्यपश्च प्रजापतिः । अदितिर्देवमाता च दितिर्दैत्यप्रसूस्तथा
सुमन्तुश्च सुभानुश्च कण्वः कात्यायनस्तथा । मार्कण्डेयो लोमशश्च कपिलश्च पराशरः
पाणिनिः पारियात्रश्च पारिभद्रश्च पुंगवः । संवर्तश्चाप्युतथ्यश्च नरोऽहं चापि नारद
विश्वामित्रः शतानन्दो जाबालिस्तैतिलस्तथा । सांदीपनिश्च ब्रह्मांशो योगिनां ज्ञानिनां गुरुः
उपमन्युर्गौरमुखो मैत्रेयश्च श्रुतश्रवाः । कठः कचश्च करखो भरद्वाजश्च धर्मवित्
सशिष्या मुनयः सर्वे वसुदेवाश्रमं ययुः । वसुदेवश्च तान्दृष्ट्वा ववन्दे दण्डवद्भुवि
अथास्मिन्नन्तरे ब्रह्मा सस्मितो हंसवाहनः । रत्ननिर्माणयानेन पार्वत्या सह शंकरः
नन्दी स्वयं महाकालो वीरभद्रः सुभद्रकः । मणिभद्रः पारिभद्रः कार्तिकेयो गणेश्वरः
गजेन्द्रेण महेन्द्रश्च धर्मश्चन्द्रो रविस्तथा । कुबेरो वरुणश्चैव पवनो वह्निरेव च
यमः संयमिनीनाथो जयन्तो नलकूबरः । सर्वे ग्रहाश्च वसवो रुद्राश्च सगणस्तथा
आदित्याश्च तथा शेणो नानादेवाः समाययुः । वसुदेवश्च भक्त्या च ववन्दे शिरसा भुवि
तुष्टाव परया भक्त्या देवेन्द्रांश्च तथा सुरान् । भक्तिन म्रात्ममूर्धा च पुलकाञ्चितविग्रहः
वसुदेव उवाच परं ब्रह्म परं धाम परमेशः परात्परः । स्वयं विधाता मद्गेहे जगतां परिपालकः
वेदानां जनकः स्रष्टा सृष्टिहेतुः सनातनः । सुराणां च मुनीन्द्राणां सिद्धेन्द्राणां गुरोर्गुरुः
स्वप्ने यत्पादपद्मं च क्षणं द्रष्टुं सुदुर्लभम् । शिवस्मरणमोत्रेण सर्वानिष्टाः पलायिताः
सर्वसंकटमुत्तीर्य कल्याणं लभते नरः । सर्वाग्रे पूजनं यस्य देवानामग्रणीः परः
घटेषु मङ्गलं मन्त्रैर्भक्त्या चाऽऽवाहनेन च । स्वयं गणेशो भगवान् साक्षाद्विघ्नविनाशकः
कार्तिकेयश्च भगवान्देवादीनां च पूजितः । देवानां प्रवरा पूज्या महालक्ष्मीः परात्परा
मद्गेहे पार्वती माता जगतामादिरूपिणी । सर्वशक्तिस्वरूपा च मूलप्रकृतिरीश्वरी