मूलप्रकृतिरेका सा पूर्णब्रह्मस्वरूपिणी
प्राणाधिष्ठातृदेवी या कृष्णस्य परमात्मनः
नारायणप्रिया लक्ष्मीः सर्वसम्पत्स्वरूपिणी 1.30.
सावित्री वेदमाता च पूज्यरूपा विधेः प्रिया
इति श्रीब्रह्मवैवर्त्ते महापुराणे ब्रह्मखण्डे सौतिशौनकसंवादे भगवत्स्तुतितत्स्वरूपवर्णनं नाम त्रिंशत्तमो ऽध्यायः
श्रीगणेशाय नमः सावित्री वै सृष्टिविधौ प्रकृतिः पञ्चधा स्मृता
आविर्बभूव सा केन का वा सा ज्ञानिनां वरा
सर्वासां चरितं पूजाविधानं कथमीप्सितम्
नारायण उवाच किंचित्तथापि वक्ष्यामि यच्छ्रुतं धर्मवक्त्रतः
प्रकृष्टवाचकः प्रश्च कृतिश्च सृष्टिवाचकः
गुणे प्रकृष्टसत्त्वे च प्रशब्दो वर्तते श्रुतौ
त्रिगुणात्मस्वरूपा या सर्वशक्तिसमन्विता
प्रथमे वर्त्तते प्रश्च कृतिस्स्यात्सृष्टिवाचकः
योगेनात्मा सृष्टिविधौ द्विधारूपो बभूव सः
सा च ब्रह्मस्वरूपा स्यान्माया नित्या सनातनी 2.1.
अतएव हि योगीन्द्रः स्त्रीपुंभेदं न मन्यते
स्वेच्छामयस्येच्छया च श्रीकृष्णस्य सिसृक्षया
तदाज्ञया पञ्चविधा सृष्टिकर्मणि भेदतः
गणेशमाता दुर्गा या शिवरूपा शिवप्रिया
ब्रह्मादिदेवैर्मुनिभिर्मनुभिः पूजिता सदा
यशोमङ्गलधर्मश्रीसत्यपुण्यप्रदायिनी
शरणागतदीनार्तपरित्राणपरायणा
सर्वशक्तिस्वरूपा च शक्तिरीशस्य सन्ततम्
बुद्धिर्निद्रा क्षुत्पिपासा च्छाया तन्द्रा दया स्मृतिः
तुष्टिः पुष्टिस्तथा लक्ष्मीर्वृत्तिर्माता तथैव च 2.1.
उक्तः श्रुतौ श्रुतगुणश्चातिस्वल्पो यथागमम्
शुद्धसत्त्वस्वरूपा या पद्मा च परमात्मनः
कान्ता दान्ताऽतिशान्ता च सुशीला सर्वमङ्गला
त्यक्ताऽनुरक्ता पत्युश्च सर्वाद्या च पतिव्रता
सर्वसस्यात्मिका सर्वजीवनोपायरूपिणी