त्वदङ्गीकारसाफल्यं करिष्यामि तथाऽपि च । यास्यामि स्वप्ने च गोकुलं विरहाकुलम्
इत्याकणर्य ययौ गेहमुद्धवश्च महायशाः । हरिर्जगाम स्वप्ने च गोकुलं विर्हाकुलम्
स्वप्ने राधां समाश्वास्य दत्त्वा ज्ञानं सुदुर्लभम् । संतोष्य क्रीडया तां च गोपिकाश्च यथोचितम्
बोधयित्वा यशोदां च स्तनं पीत्वा च निद्रिताम् । गोपान्गोपशिशूंश्चैव बोधयित्वा ययौ पुनः
इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo अष्टनवतितमोऽध्यायः
अथ नवनवतितमोऽध्यायः नारायण उवाच एतस्मिन्नन्तरे गर्गो वसुदेवाश्रमं ययौ । दण्डी छत्री च जटिलो दीप्तश्च ब्रह्मतेजसा
शुक्लयज्ञोपवीती च तपस्वी संयतः सदा । शुक्लदन्तः शुक्लवासा यदोः कुलपुरोहितः
तं दृष्ट्वा सहसोत्थाय देवकी प्रणनाम च । वसुदेवश्च भक्त्या च रत्नसिहासनं ददौ
मधुपर्कं कामधेनुं वह्निशुद्धांशुकं तथा । दत्त्वा गन्धं पुष्पमाल्यं पूजयामास भक्तितः
मिष्टान्नं परमान्नं च पिण्टकं मधुरं मधु । भोजयामास यत्नेन ताम्बूलं वासितं ददौ
प्रणम्य कृष्णं मनसा सबलं तं विलोक्य च । उवाच वसुदेवं च देवकीं च पतिव्रताम्
गर्ग उवाच वसुदेव निबोधेनं सवलं पश्य पुत्रकम् । उवनीतोचितं शुद्धं वयमा सांप्रतं वरम्
वसुदेव उवाच शुभक्षणं कुरु गृरो यदूनां पूज्यदैवत । उपनीतोचितं शुद्धं प्रशंस्यं च सतामपि
गर्ग उवाच सर्वेम्यो बान्धवेम्योऽपि देह्यामन्त्रणपत्रिकाम् । संभारं कुरु यत्नेन वसुदेव वसुपम
परश्वः सुभमेवास्ति चोपेनतुमिहार्हसि । दिनं सतामपि मतं विशुद्धं चन्द्रतारयोः
गर्गस्य वचनं श्रुत्वा वसुदेवो वसूपमः । प्रस्थापयामास सर्वान्बन्धून्मङ्गलपत्रिकाम्
घृतकुल्यां दुग्धकुल्यां दधिकुल्यां मनोहराम् । मधुकुल्यां गुडकुल्यां प्रचकार समन्वितः
राशिं नानोपहाराणां मणिरत्नं सुवर्णकम् । नानालंकारवस्त्रं च मुक्तामाणिक्यहीरकम्
श्रीकृष्णो देववर्गाश्च मुनीन्द्रसिद्धपुंगवान् । सस्मार मनसा भक्त्या भक्ताश्च भक्तवत्सलः
शुभे दिने च संप्राप्ते ते च सर्वे समाययुः । मुनीन्द्रा बान्धवा देवा राजानो बहुशस्तथा
देवकन्या नागकन्या राजकन्याश्च सर्वशः । विद्याधर्यश्च गन्धर्वाश्चाऽऽययुर्वाद्यभाण्डकाः
ब्राह्मणा भिक्षुका भट्टा यतयो ब्रह्मचारिणः । संन्यासिनश्चावधूता योगिनश्च समाययुः
स्त्रीबान्धवाः स्वबन्धूनां वर्गा मातामहस्य च । बन्धूनां बान्धवाः सर्वे स्वाययुः शुभकर्मणि
भीष्मो द्रोणश्च कर्णश्चाप्यश्वत्थामा कृपो द्विजः । सुपुत्रो धृतराष्ट्रश्च सभार्यश्च समाययौ
कुन्ती सपुत्रा विधवा हर्षशोकसमाप्लुता । नानादेशोद्भवा योग्या राजानो राजपुत्रकाः
अत्रिर्वसिष्ठश्च्यवनो भरद्वाजो महातपाः । याज्ञवल्क्यश्च भीमश्च गार्ग्यो गर्गो महातपाः
वत्सः सपुत्रश्च धर्मो जैगीषव्यः पराशरः । पुलहश्च पुलस्त्यश्चाप्यगस्त्यश्वापि सौभरिः
सनकश्च सनन्दश्च तृतीयश्च मनातनः । सनत्कुमारो भगवान्वोढुः पञ्चशिखस्तथा
तुर्वासाश्चाङ्गिरा व्यासो व्यासपुत्रः शुकस्तथा । कुशिकः कौशिको राम ऋष्यशृङ्गो विभाण्डकः
शृङ्गी च वामदेवश्च गौतमश्च गुणार्णवः । क्रतुर्यतिश्चाऽऽरुणिश्च शुक्राचार्यो बृहस्पतिः