किमूचुर्गोपिकाः सर्वाः किमुचुर्गोपबालकाः । गोपाश्च वृद्धाः किंवोचुर्वयस्या जनकस्य मे
बलवेवस्य जननी किमूचे रोहिणी सती । किमुचूरपरास्तात बन्धुवल्लभवल्लवाः
किं भुक्तं किमपूर्वं वा दत्तं मात्रा च राधया । कीदृग्वाक्यं सुमधुरं संभाषा कीदृशीति च
गोपानां गोपिकानां च शिशूनां मातुरेव च । राधायाश्चापि कीदृग्वा मयि प्रेमोद्धवाधिकम्
मां च स्मरति माता मे मां च स्मरति रोहिणी। मां च स्मरति सा राधा मत्प्रेमविरहाकुला
मां च स्मरन्ति गोप्यश्च गोपाश्च गोपबालकाः । भाण्डीरे वटमूले च बालाः क्रीडन्ति मां विना
दत्तमन्नं ब्राह्मणीभिर्यत्र भुक्तं सुधोपमम् । प्रमदाबालकैः सार्धं तद्दृष्टं पदमीप्सितम्
इन्द्रयागस्थलं दृष्टं दृष्टो गोवर्धनो वरः । ब्रह्मणा च हृता गावो यत्र तद्दृष्टमुत्तमम्
श्रीकृष्णस्य वचः श्रुत्वा शोकोक्तं मधुरान्वितम् । उद्धवः समुवाचेदं भगवन्तं सनातनम्
उद्धव उवाच यद्यदुकतं त्वया नाथ सर्वं दृष्टं यथेप्सितम् । सफलं जीवनं जन्म कृतमत्रैव भारते
दृष्टं भारतसारं च पुण्यं वृन्दावनं वनम् । तत्सारं व्रजभूमौ च सुरम्यं रासमण्डलम्
तत्सारभूता गोलोकवासिन्यो गोपिकाः वराः । दृष्टा तत्मारभूता च राधा रासेश्वरी परा
कदलीवनमध्ये च निर्जने सुहृदस्थले । पङ्कस्थे पङ्कजदले सजले चन्दनार्चिते
शयनेऽतिविषण्णा सा रत्नभूषणवर्जिता । अतीव मलिना क्षीणाऽऽच्छादिता शुक्लवाससा
सेविता सखिभिस्तत्र सततं श्वेतचामरैः । कृशोदरी निराहारा क्षणं श्वसिति च क्षणम्
क्षणं जीवति किं वा सा विरहज्वरपीडिता । किं वा जलं स्थलं किं दा नक्तं किं वा दिनं हरे
नरं पशुं न जानाति किं परं किमु बान्धवम् । बाह्यज्ञानविरहिता ध्यायमाना पदं तव
त्रेलोक्ये यशसा भाति तन्मृत्युर्यशसंभवः । स्त्रीहत्यां नैव वाञ्छन्ति ज्ञानहीनाश्च दस्यवः
गच्छ शीघ्रं जगन्नाथ कदलीवनमीप्सितम् । बहिर्भूता न जगतां सा राधा त्वत्परायणा
अतीव भक्ता न त्याज्या प्रभुणा रक्षिता सदा । न हि राधापरा भक्ता न भूता न भविष्यति
मन्मथः शंकराद्भीतो भवांश्च तत्पुरःसुरः । भवद्विधं पतिं प्राप्य कामदग्धा च राधिका
तस्मात्सर्वपरं कर्म तन्न केनापि वार्यते । मधुर्दहति चन्द्रश्च सततं किरणेन च
शश्वत्सुगन्धिवायुश्चाप्यनाथा सर्वबीडिता । तप्तकाञ्चनवर्णभा साऽधुना कज्जलोपमा
सुवर्णवर्णकेशी च वासोवेषविवर्चिता । स्वयं विधाता त्वद्भक्तः सुराणां प्रवरो विभुः
त्वद्भक्तः शंकरो देवो योगीन्द्राणां गुरोर्गुरुः । सनत्कुमारस्त्व द्भक्तो गणेशो ज्ञानितां वरः
मुनीन्द्राश्च कतिविधास्त्वद्भक्ता धरणीतले । त्वद्भक्ता यादृशी राधा न भक्तादृशोऽपरः
ध्यायते यादृशी राधा स्वयं लक्ष्मीर्न तादृशी । हरिरायाति चेत्येवं राधाग्रे स्वीकृतं मया
शीघ्रं गच्छ महाभाग तदेव सार्थकं कुरु । अद्धवस्य वचःश्रुत्वा जहासोवाच माधवः वेदोक्तं कथयामास सहितं सत्यसुव्रतम्
श्रीभगवानुवाच स्त्रीषु धर्मविवाहेषु वृत्त्यर्थे प्राणसंकटे । गवामर्थे ब्राह्मणार्थे नानृतं स्याज्जुगुप्सितम्
तत्स्वीकारविहीनेन कुतस्त्वं नरकः कुतः । गोलोकं याति मद्भक्तो नरकं न हि पश्यति