निष्फलं च गतं जन्म गच्छ मिथ्यादुराशया । आशा हि परमं दुःखं नैराश्यं परमं सुखम्
पश्चाद्विचिन्त्य गोविन्दं जीवन्मुक्ता बभूव सा । इत्युक्त्वा राधिका तत्र रुरोद च भृशं पुनः
प्रणम्य तां रुदन्तीं च यशोदाभवनं ययौ । अथोद्धवे गते राधा मूर्च्छां मंप्राप नारद
तत्याज चेतनां शश्वद्बभूव ध्यानतत्परा । पङ्कस्थे पङ्कजदके सजले शयने मुने
गोप्यस्तां स्थापयामासुः साश्रुनेत्रोत्पला वराः । तत्स्पर्शमात्राच्छयनं भस्मीभूतं बभूव ह
पुनः स्निग्धस्थले स्थिग्धनिचोले चन्दनाङ्किते । पुनस्तां स्थापयामासुर्विरहज्वरकातराम्
सहसा शुष्कतां प्राप सुगन्धि चन्दनोदकम् । निमेषेण शतयुगं तद्बभूवोद्धवं विना
हा होद्धवोद्धव हरिं शीघ्रं गत्वा वदेति च । समानय हरिं शीघ्रं मत्प्राणेश्वरमित्यपि
इत्युक्तवचनां दीनां संतापहृतचेतनाम् । रुरुदुर्गोपिकाः सर्वा राधां कृत्वा स्ववक्षसि चेतनां कारयामासुर्बोधयामासुरौप्सितम्
इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo राधोद्धवसंo सप्तनवतितमोऽध्यायः
अथाष्टनवतितमोऽध्यायः नारायण उवाच अथोद्धवो यशोदां च प्रणम्य त्वरया मुदा । खर्जूरकाननं वामे कृत्वा च यमुनां ययौ
स्नात्वा भुक्त्वा च तत्रैव जगाम् मथुरां पुनः ।ददर्श वटमूले च गोविन्दं रहसि स्थितम्
प्रफुल्लोऽप्युद्धवं दृष्टवा सस्मितं तमुवाच सः । रुदन्तं शोकदग्धं च साश्रुनेत्रं च कातरम्
श्रीभगवानुवाच आगच्छोद्धव कल्याणं राधा जीवति जीवति । कल्याणयुक्ता गोप्यश्च जीवन्ति विरहज्वरात्
शुभं गोपशिशूनां च वत्सानां च गवामपि । माता मे पुत्रविरहाद्यशोदा कीदृशी च सा
वद बन्धो यथार्थं तत्त्वां दृष्ट्वा किमुवाच सा । त्वयोक्ता जननी किं वा पुनः सा किमुवाच माम्
दृष्टं तद्यमुनाकूलं पुण्यं वृन्दावनं वनम् । निर्जनोपवनोघैश्च सुरम्यं रासमण्डलम्
रम्यं कुञ्जकुटीरौधै रम्यं क्रीडासरोवरम् । पुष्पोद्यानं विकसितं संकुलं च मधुव्रतैः
भाण्डीरे च वटो दृष्टः सुस्निग्धो बालकान्वितः । दृष्टो गोष्ठो गवां दृष्टं गोकुलं गोकुलव्रजम्
यदि जीवति राधा सा दृष्ट्वा त्वां किमुवाच माम् । तत्सर्वं वद हे बन्धी चाऽऽन्दोलयति मे मनः
किमूचुर्गोपिकाः सर्वाः किमुचुर्गोपबालकाः । गोपाश्च वृद्धाः किंवोचुर्वयस्या जनकस्य मे
बलवेवस्य जननी किमूचे रोहिणी सती । किमुचूरपरास्तात बन्धुवल्लभवल्लवाः
किं भुक्तं किमपूर्वं वा दत्तं मात्रा च राधया । कीदृग्वाक्यं सुमधुरं संभाषा कीदृशीति च
गोपानां गोपिकानां च शिशूनां मातुरेव च । राधायाश्चापि कीदृग्वा मयि प्रेमोद्धवाधिकम्
मां च स्मरति माता मे मां च स्मरति रोहिणी। मां च स्मरति सा राधा मत्प्रेमविरहाकुला
मां च स्मरन्ति गोप्यश्च गोपाश्च गोपबालकाः । भाण्डीरे वटमूले च बालाः क्रीडन्ति मां विना
दत्तमन्नं ब्राह्मणीभिर्यत्र भुक्तं सुधोपमम् । प्रमदाबालकैः सार्धं तद्दृष्टं पदमीप्सितम्
इन्द्रयागस्थलं दृष्टं दृष्टो गोवर्धनो वरः । ब्रह्मणा च हृता गावो यत्र तद्दृष्टमुत्तमम्
श्रीकृष्णस्य वचः श्रुत्वा शोकोक्तं मधुरान्वितम् । उद्धवः समुवाचेदं भगवन्तं सनातनम्
उद्धव उवाच यद्यदुकतं त्वया नाथ सर्वं दृष्टं यथेप्सितम् । सफलं जीवनं जन्म कृतमत्रैव भारते