धन्या मान्या च पृथिवी त्रेषु लोकेषु पूजिता । राधायास्तीर्थपूतायाः पादाब्जरजसा वरा
षष्टिवर्षसहस्राणि दिव्यानि पुष्करे पुरा । ब्रह्मणा च तपस्तप्तं वेदोक्तं भक्तिपूर्वकम्
गोलोके राधिकाकृष्णदर्शनार्थं मनोरथात् । गोलोके राधिकाकृष्णो न दृष्टः स्वप्नतस्तदा
श्रुता तेनाऽऽकाशवाणी सत्यरूपा च लीलया । वाराहे भारते वर्षे पुण्ये वृन्दावने वने
रासोत्सवे महाराम्ये तत्रैव रासमण्डले । द्रक्ष्यसीति च देवानां मध्ये सुस्थो न संशयः
श्रुत्वा च विरतो ब्रह्मा तपसः स्वगृहं गतः ।कृष्णो दृष्टश्च हृष्टश्च परिपूर्णमनोरथः
गोपानां गोपिकानां च सफलं जन्म जीवनम् । नित्यं पश्यन्ति ते पादपद्मं ब्रह्मादिदुर्लभम्
मानिनीं राधिकां सन्तः सदा सेवन्ति नित्यशः । योगीन्द्राश्च मुनीन्द्राश्च सिद्धेन्द्रा वैष्णवास्तथा
सतीं पुण्यां तीर्थपूतां स्वतः शुद्धां सुदुर्लभाम् । सुलभं यत्वदाम्भोजं ब्रह्मादीनां सुदुर्लभम्
यत्पादपद्मनखरं कृतं यावकचिह्नितम् । सर्वेश्वरेश्वरेणैव कृष्णेन परमात्मना
चकार यस्याः पूजां च स्तोत्रराजं सुदुर्लभम् । शतशृङ्गे स्वयं कृष्णो गोलोके रासमण्डले
पारिजातप्रसूनानामञ्जलिं गन्धयन्दनम् । ददौ दूर्वाक्षतं स्निग्धं यस्याः पादारविन्दयोः
त्रिंशत्सहस्रकोटीनां गोपीनामीश्वरी च या । तत्षट्त्रिंशत्सखीनां च ईश्वरी राधिकाभिधा
ये वा द्विषन्ति निन्दन्ति पापिनश्च हसन्ति च । कृष्णप्राणाधिकादेवदेवीं च राधिकां वराम्
ब्रह्महत्याशतं ते च लभन्ते नात्र संशयः । तत्पापेन च पच्यन्ते कुम्भीपाके च रौरवे
तप्ततैले महाघोरे ध्वान्ते कीटे च यन्त्रके । चतुर्दशेन्द्रावच्छिन्नं पितृभिः सप्तभिः सह
ततः परं च जायन्ते जन्मैकं लोकजन्मतः । दिव्यं वर्षसहस्रं च विष्ठाकीटाश्च पापतः
पुंश्चलीनां योनिकीटास्तद्रक्तमलभक्षकाः । मलकीटाश्च तन्मानवर्षं च पूयभक्षकाः
वेदे च काण्वशाखायामित्याह कमलोद्भवः । इत्युक्तवन्तं तं यान्तमुवाच राधिका पुनः रुदन्तं च रुदन्ती सा कृष्णविच्छेदकातरा
राधिकोवाच गच्छ वत्स मधुपुरीं सर्वं बोधय माधवम् । यथा पश्यामि गोविन्दं प्रयत्नेन तथा कुरु
निष्फलं च गतं जन्म गच्छ मिथ्यादुराशया । आशा हि परमं दुःखं नैराश्यं परमं सुखम्
पश्चाद्विचिन्त्य गोविन्दं जीवन्मुक्ता बभूव सा । इत्युक्त्वा राधिका तत्र रुरोद च भृशं पुनः
प्रणम्य तां रुदन्तीं च यशोदाभवनं ययौ । अथोद्धवे गते राधा मूर्च्छां मंप्राप नारद
तत्याज चेतनां शश्वद्बभूव ध्यानतत्परा । पङ्कस्थे पङ्कजदके सजले शयने मुने
गोप्यस्तां स्थापयामासुः साश्रुनेत्रोत्पला वराः । तत्स्पर्शमात्राच्छयनं भस्मीभूतं बभूव ह
पुनः स्निग्धस्थले स्थिग्धनिचोले चन्दनाङ्किते । पुनस्तां स्थापयामासुर्विरहज्वरकातराम्
सहसा शुष्कतां प्राप सुगन्धि चन्दनोदकम् । निमेषेण शतयुगं तद्बभूवोद्धवं विना
हा होद्धवोद्धव हरिं शीघ्रं गत्वा वदेति च । समानय हरिं शीघ्रं मत्प्राणेश्वरमित्यपि
इत्युक्तवचनां दीनां संतापहृतचेतनाम् । रुरुदुर्गोपिकाः सर्वा राधां कृत्वा स्ववक्षसि चेतनां कारयामासुर्बोधयामासुरौप्सितम्
इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo राधोद्धवसंo सप्तनवतितमोऽध्यायः