समस्तपृथिवीदानं प्रदक्षिण्यं भुवस्तथा । समस्ततीर्थस्नानं च समस्तं च व्रतं तपः
समस्तयज्ञकरणं सर्वदानफलं तथा । समस्तवेदवेदाङ्गपठनं पाठनं तथा
भीतस्थं रक्षणं चैव ज्ञानदानं सुदुर्लभम् । अतिथीनां पूजनं च शरणागतरक्षणम्
सर्वदेवार्चनं चैव वन्दनं जपनं मनोः । भोजनं विप्रदेवानां पुरश्चरणपूर्वकम्
गुरुशुश्रूषणं चैव पित्रोर्भक्तिश्च पोषणम् । सर्वं श्रीकृष्णदास्यस्य कलां नार्हति षोडशीम्
तस्मादुद्धव यत्नेन भज कृष्णं परात्परम् । निर्गुणं च निरीहं च परमात्मानमीश्वरम्
नित्यं सत्यं परं ब्रह्म प्रकृतेः परमीश्वरम् । परिपूर्णतमं शुद्धं भक्तानुग्रहविग्रहम्
कर्मिणां कर्मणां साक्ष्यप्रदं निर्लिप्तमेव च । ज्योतिः स्वरूपं परमं कारणानां च कारणम्
सर्वस्वरूपं सर्वेशं सर्वसंपत्प्रदं शुभम् । भक्तिदं दास्यदं स्वस्य निजसंपत्पदप्रदम्
विसृज्य ज्ञातिबुद्धिं च मात्सर्यमशुभप्रदम् । भज तं परमानन्दं सानन्दं नन्दनन्दनम्
वेदे कौथुमिशाखायां तस्य नाम्नां सहस्रकम् । नन्दनन्दननामोक्तं कृतौ विघ्नं सुदुर्लभम्
उद्धवः सर्वमाकर्ण्य परमं विस्मयं ययौ । ज्ञानं संप्राप्य संपूर्ण परिबूर्णे भभूव ह
स्ववस्त्रं च गले बद्ध्वा दण्डवत्प्रणनाम् ताम् । मुर्ध्नः केशैश्च तत्पादं निबध्य च पुनाः पुनः
पुलकाञ्चितसर्वाङ्गः साश्रुनेत्रश्च भक्तितः । तद्विच्छेदशुचा प्रेम्ण रुरोदोच्चैश्च नारद
रुरोद राधा तत्प्रेम्णा रुरोद बल्लवीगणः । उद्धवस्य गलं धृत्वा सथापयामास लोभतः
उद्ववं मूर्च्छितं दृष्ट्वा जृम्भितं त्यक्तचेतनम् । शीघ्रसुत्थापयामास राधिका कृष्णमानसम्
चेतनं कारयामास जलं दत्त्वा मुखाम्बुजे । शुभाशिषं च प्रददौ वत्स जीवेति नारद
उद्धवश्चेतनां प्राप्य तमुवाच सुसंसदि । रुदतीनां च गोपीनां पुरतः परमार्थदम्
उद्धव उवाच धन्यो यशस्यो द्वीपानां जम्बुद्वीपः सुदुर्लभः । यत्र भारतवर्ष तु सर्वैषामीप्सितं वरम्
अहो भारतवर्षे तु पुण्यं वृन्दावनं वनम् । राधापादाब्जसंस्पर्शरजः पूतं सुरेप्सितम्
धन्या मान्या च पृथिवी त्रेषु लोकेषु पूजिता । राधायास्तीर्थपूतायाः पादाब्जरजसा वरा
षष्टिवर्षसहस्राणि दिव्यानि पुष्करे पुरा । ब्रह्मणा च तपस्तप्तं वेदोक्तं भक्तिपूर्वकम्
गोलोके राधिकाकृष्णदर्शनार्थं मनोरथात् । गोलोके राधिकाकृष्णो न दृष्टः स्वप्नतस्तदा
श्रुता तेनाऽऽकाशवाणी सत्यरूपा च लीलया । वाराहे भारते वर्षे पुण्ये वृन्दावने वने
रासोत्सवे महाराम्ये तत्रैव रासमण्डले । द्रक्ष्यसीति च देवानां मध्ये सुस्थो न संशयः
श्रुत्वा च विरतो ब्रह्मा तपसः स्वगृहं गतः ।कृष्णो दृष्टश्च हृष्टश्च परिपूर्णमनोरथः
गोपानां गोपिकानां च सफलं जन्म जीवनम् । नित्यं पश्यन्ति ते पादपद्मं ब्रह्मादिदुर्लभम्
मानिनीं राधिकां सन्तः सदा सेवन्ति नित्यशः । योगीन्द्राश्च मुनीन्द्राश्च सिद्धेन्द्रा वैष्णवास्तथा
सतीं पुण्यां तीर्थपूतां स्वतः शुद्धां सुदुर्लभाम् । सुलभं यत्वदाम्भोजं ब्रह्मादीनां सुदुर्लभम्
यत्पादपद्मनखरं कृतं यावकचिह्नितम् । सर्वेश्वरेश्वरेणैव कृष्णेन परमात्मना