एवं कालगतिस्तत्र विष्णुलोकेऽस्ति संततम् । कालस्वरूपो भगवान्परमात्मा निराकृतिः
चन्द्रसूर्यगतिर्नास्चि पातालेषु च सप्तषु । ,द्वासिनश्च जानन्ति शङ्कन्ते न दिवानिशम्
दिने च मूर्ध्निनागानां मणिर्ज्वलति नित्यशः । संध्यायां दीप्तमग्निश्च रात्रिश्च तमसाऽऽवृता
कालं ताम्रीप्रमाणेन जानन्ति तन्निवासिनः । यथा भुवि तथा तत्र परिमाणं प्रकीर्तितम्
कृतं त्रेता द्वापरं च कलिश्चेति चतुर्युगम् । दिव्यैर्द्वादशसाहस्रैर्वत्सरैश्चापि तन्मितम्
अष्टौ शतान्यप्यधिकं सहस्राणां चतुष्टयम् । दिव्यैर्वर्षैः कृतयुगं कालविद्भिर्निरूपितम्
अष्टाविंशत्सहस्राण्यप्यधिकं परिमाणकम् । लक्षाणां च सप्तदशं नृमानं परिकीन्तितम्
अधिकं षट्शतान्येव सहस्राणां त्रयं तथा । दिव्यैर्वर्षैश्च त्रेतेति वत्स कालविदो विदुः
षण्णवतिसहस्राणि लक्षैर्द्वादशभिः सह । नृणां वर्षैश्च त्रेतेति कालविद्भिः प्रकीर्तितः
चतुष्टयं शतानां चाप्यधिकं द्विसहस्रकम् । वर्ष दिव्यं द्वापरं च कालज्ञैः परिकीर्तितम्
चतुःषष्टिसहस्राणि लक्षैरष्टभिरेव च । नृणां वर्षैर्द्वापरं च कालज्ञैः परिकीर्तितम्
अधिकं द्विशतं चैव दिव्यं वर्षसहस्रकम् । एवंमितं कलियुगं वत्स प्राज्ञैर्निरूपितम्
द्वात्रिंशच्च सहस्रं च चतुर्लक्षं नृमानकम् । वर्ष चेति कलियुगे चकार कालकोविदः
लक्षैर्द्विचत्वारिंशद्भिः सह विंशत्सहस्रकैः । नृमानवर्षैः कालज्ञैर्व्यक्तमेव चतुर्युगम्
इति ते कथितं वत्स कालसंख्यानिरूपणम् । यथाश्रुतं यथाज्ञानं गच्छ वत्स हरेः पुरम्
अथ सप्तनवतितमोऽध्यायः नारायण उवाच गच्छन्तमुद्धवं दृष्ट्वा संत्रस्ता श्रीहरेः प्रिया । समुत्थायाऽऽसनाच्छीघ्रं हृदयेन विदूयता
गोपीभिः सहिता शीघ्रं समुद्विग्ना सहासती । ददौ शुभाशिषं तस्मै तस्य मूर्ध्नि करं तथा
स्तिग्धदूर्वाक्षतं शुक्लधान्यं पुष्पं च मङ्गलम् । प्रेरयामास लाजांश्च फलं पर्णं तथा दधि
दर्मणं दर्शयामास पूर्णकुम्भ सपल्लवम् । सफलं गन्धसिन्धूरकस्तूरीचन्दनान्वितम्
पुष्पमाल्यं प्रदीपं च रत्नं गन्धं द्विजोत्तम । पतिपुत्रवती साध्वी काञ्चनं रजतं तथा
तमुवाच महासाध्वी हितं सत्यं च मङ्गलम् । संगोप्यं साश्रुनेत्रं च पतितं दुःखिता हृदि
राधिकोवाच शुभं भवतु मार्गस्ते कल्याणमस्तु संततम् । ज्ञानं लभ हरेः स्थानात्कृष्णस्य सुप्रियो भव
कृष्णभक्तिः कृष्णदास्यं दलेषु च वरं वरम् । श्रेष्ठा पञ्चविधा मुक्तेर्हरिभक्तिर्गरीयसी
ब्रह्मत्वादपि देवत्वादिन्द्रत्वादमरादपि । अमृतात्सिद्धिलाभाच्च हरिदास्यं सुदुर्लभम्
अनेकनन्मतपसा संभूय भारते द्विजः । हरिभक्तिं यदि लभेत्तस्य जन्म सुदुर्लभम्
सफलं जीवनं तस्य कुर्वतः कर्मणः क्षयम् । पितॄणां च सहस्राणि स्वस्य मातुश्च निश्चितम्
मातामहानां पुंसां च शतानां सोदरस्य च । बान्धवस्यापि पत्न्याश्च गुरूणां शिष्यभृत्ययोः
तत्कर्म शोभरं वत्स यच्च कृष्णो समर्पणम् । तत्कर्म शोभनं शुद्धं कुष्णसंतोषणं यतः
संकल्पसाधनं कर्म संप्रीतिविधिपूर्वकम् । तदेव मङ्गलं धन्यं परिणामसुखावहम्
तद्व्रतं तत्तपः सत्यं तद्भक्तिः पूजनं तथा । तदुद्देश्यमनशनं केवलं दास्यकालणम्