नराणां चापि मासेन पितॄणां च दिवानिशम् । शुक्ले चापि दिनं तेषां कृष्णे नक्तं प्रकीर्तितम्
वत्सरेण नाराणां च सुराणां च दिवानिशम् । दिनं तेषामुत्तरे च नक्तं च दक्षिणायने
मन्वन्तरं तु दिव्यानां युगानामेकसप्ततिः । मनोरायुः परिमितं शक्रस्याऽऽयुः प्रकीर्तितम्
पञ्चविंशत्सहस्रं च तथा पञ्चशतं परम् । तत्र सूर्यगतिर्नास्ति शक्रपातानुसारतः
दिवानिशं च जानन्ति ब्रह्मलोकनिवासिनः । दण्डद्वयं नरपलं शक्रपातेन तत्पलम्
एवं त्रिशद्दिनेनैव धातुर्मासः प्रकीर्तितः । अब्दो द्वादशभिर्मासैरेवं तस्य शतायुषः
ब्रह्मणः पतनेनैव निमेषाच्छ्रीहरेरपि । धातुः पातानुसारेण वैकुण्ठे न दिवानिशम्
तत्र सूर्यगतिर्नास्ति चैवं गोलोकतः स्मृतम् । वैकुण्ठवासिनः सर्वे न वै जानन्त्यहर्निशम्
चन्द्रस्यापि ग्रहाणां च गतिर्नास्ति च तत्र वै । चक्रं नैव भ्रमत्येव राशीनामिच्छया हरेः
दिनं च तेजसा दीप्तं कृष्णस्य परमात्मनः । नक्तं तेजोविहीनं च हरौ च मन्दिरं गते
एवं कालगतिस्तत्र विष्णुलोकेऽस्ति संततम् । कालस्वरूपो भगवान्परमात्मा निराकृतिः
चन्द्रसूर्यगतिर्नास्चि पातालेषु च सप्तषु । ,द्वासिनश्च जानन्ति शङ्कन्ते न दिवानिशम्
दिने च मूर्ध्निनागानां मणिर्ज्वलति नित्यशः । संध्यायां दीप्तमग्निश्च रात्रिश्च तमसाऽऽवृता
कालं ताम्रीप्रमाणेन जानन्ति तन्निवासिनः । यथा भुवि तथा तत्र परिमाणं प्रकीर्तितम्
कृतं त्रेता द्वापरं च कलिश्चेति चतुर्युगम् । दिव्यैर्द्वादशसाहस्रैर्वत्सरैश्चापि तन्मितम्
अष्टौ शतान्यप्यधिकं सहस्राणां चतुष्टयम् । दिव्यैर्वर्षैः कृतयुगं कालविद्भिर्निरूपितम्
अष्टाविंशत्सहस्राण्यप्यधिकं परिमाणकम् । लक्षाणां च सप्तदशं नृमानं परिकीन्तितम्
अधिकं षट्शतान्येव सहस्राणां त्रयं तथा । दिव्यैर्वर्षैश्च त्रेतेति वत्स कालविदो विदुः
षण्णवतिसहस्राणि लक्षैर्द्वादशभिः सह । नृणां वर्षैश्च त्रेतेति कालविद्भिः प्रकीर्तितः
चतुष्टयं शतानां चाप्यधिकं द्विसहस्रकम् । वर्ष दिव्यं द्वापरं च कालज्ञैः परिकीर्तितम्
चतुःषष्टिसहस्राणि लक्षैरष्टभिरेव च । नृणां वर्षैर्द्वापरं च कालज्ञैः परिकीर्तितम्
अधिकं द्विशतं चैव दिव्यं वर्षसहस्रकम् । एवंमितं कलियुगं वत्स प्राज्ञैर्निरूपितम्
द्वात्रिंशच्च सहस्रं च चतुर्लक्षं नृमानकम् । वर्ष चेति कलियुगे चकार कालकोविदः
लक्षैर्द्विचत्वारिंशद्भिः सह विंशत्सहस्रकैः । नृमानवर्षैः कालज्ञैर्व्यक्तमेव चतुर्युगम्
इति ते कथितं वत्स कालसंख्यानिरूपणम् । यथाश्रुतं यथाज्ञानं गच्छ वत्स हरेः पुरम्
अथ सप्तनवतितमोऽध्यायः नारायण उवाच गच्छन्तमुद्धवं दृष्ट्वा संत्रस्ता श्रीहरेः प्रिया । समुत्थायाऽऽसनाच्छीघ्रं हृदयेन विदूयता
गोपीभिः सहिता शीघ्रं समुद्विग्ना सहासती । ददौ शुभाशिषं तस्मै तस्य मूर्ध्नि करं तथा
स्तिग्धदूर्वाक्षतं शुक्लधान्यं पुष्पं च मङ्गलम् । प्रेरयामास लाजांश्च फलं पर्णं तथा दधि
दर्मणं दर्शयामास पूर्णकुम्भ सपल्लवम् । सफलं गन्धसिन्धूरकस्तूरीचन्दनान्वितम्
पुष्पमाल्यं प्रदीपं च रत्नं गन्धं द्विजोत्तम । पतिपुत्रवती साध्वी काञ्चनं रजतं तथा