स्वर्णमाषैः कृतच्छिद्रं यावत्प्रस्थजलप्लुतम् । दण्डद्वये मुहूर्तः स्यात्वष्टिदण्डात्मिका तिथिः
तदष्टभागः प्रहरः प्रमाणं च निरूपणम् । चतुर्भिः प्रहरै रात्रिश्चतुर्भिर्दिनमुच्यते
तिथिपञ्चदशेनैव पक्षमानं प्रकीर्तितम् । पक्षद्वयेन मासः स्याच्छुक्लकृष्णाभिधेन च
ऋतुर्मासद्वयेनैव तत्षट्केनैव वत्सरः । वसन्तग्रीष्मवर्षाश्च शरद्धेमन्तशीतकाः
वर्षाः पञ्चविधा ज्ञेयाः कालविद्भिर्निरूपिताः । संवत्सरः प्रवत्सर इलावत्सर एव च
अनुवत्सरो वत्सरोऽयमिति कालविदो विदुः । अब्दो द्विषट्कमासैश्च तन्नाम शुणु चोद्धव
वैशाखो ज्येष्ठ आषाढः श्रावणो भाद्र एव च । आश्विनः कार्तिको मार्गः पौषो माघस्तु फाल्गुनः
सैत्रस्तु चरमो ज्ञेयो वर्षशेषी निरूपितः । वसन्तश्चैत्रवैशाखमासयुग्मेन कीर्तितः
ज्येष्ठावाढद्वयेनैव ग्रीष्मस्तु परिकीर्तितः । वर्षा श्रावणभद्रे च ह्याश्विने कार्तिके शरत्
मार्गे पौषे च हेमन्तः शिशिरो माघफाल्गुने । अब्दस्तु चायनै द्वे वै चोत्तरे दक्षिणायने
माघादिषड्विनिर्मितमुत्तरायणमीप्सितम् । श्रावणादिमासषट्कं दक्षिणायनमेव च
माघादाषाढपर्यन्तं दिनं वृद्धं क्रमेण वै । नक्तं वृद्धं श्रावणश्च पौषपर्यन्तमेव च
प्रतिपत्पूर्णिमान्तश्च शुक्लपक्षः प्रकीर्तितः । पूर्णिमायाः प्रतिपदश्चामावास्यान्त एव च
कृष्णपक्षस्तु विज्ञेयो वेदविद्भिर्निरूपितः । द्वितीया च तृतीया च चतुर्थी पञ्चमी तथा
षष्ठी च सप्तमी चैव ह्यष्टमी नवमी तथा । दशम्येकादशी चापि द्वादशी च त्रयोदशी
चतुर्दशी कुहूर्यावद्दिनं तु गणनं स्मृतम् । अश्विनी भरणी चापि कृत्तिका रोहिणी तथा
मृगशिरस्त्थाऽऽर्द्रा च नक्षत्रे द्वे पुनर्वसू । पुष्याश्लेषे मघा चैव पूर्वा चोत्तरफाल्गुनी
हस्तचित्रे तथा स्वाती विशाखा चानुराधिका । ज्येष्ठा मूलं तथा ज्ञेया पूर्वाषाढोत्तरा तथा
श्रवणाभिजिती चैव धनिष्ठा च प्रकीर्तिता । ततः शतभिषा ज्ञेय पूर्वाभाद्रपदा तथा
तथोत्तरा तु विज्ञेया रेवती चरमा स्मृता । अष्टाविंशति नक्षत्रं कलत्रं शशिनस्तथा
क्रमेण ताभिः सार्ध च चन्द्रस्तिष्ठति नित्यशः । सप्तविंशति नक्षत्रं कलत्रं च श्रुतौ श्रुतम्
अभिजिच्छूवणच्छाया तेनाष्टाविंशतिः स्मृता । एकदा च मधौ चन्द्रो रोहिण्या वामया सह
रेमे दिवानिशं नित्यं श्रवणा च चुकोप सा । छायां च दत्त्वा चन्द्राय ययौ तातान्तिकं भिया
ततः पितरमादाय सा चक्रे च विभागकम् । बभूव तेन नक्षत्रमभिजिन्नामकं पुरा
एतच्छ्रुत्वा कृष्णमुखाच्छतश्रृङ्गे च पर्वते । नक्षत्रं कथितं वत्स तिथ्या भ्रमति नित्यशः
योगं च करणं चैव मद्वक्त्रेण निशामय । विष्कम्भः प्रीतिरायुष्मान्सौभाग्यः शोभनस्तथा
अतिगण्डः सुकर्मा च घृतिः शूलस्तथैव च । गण्डो वृद्धिर्ध्रुवश्चैव व्याघातो हर्षणास्तथा
वज्रं सिद्धिर्व्यतीपातो वरीयान्परिघः शिवः । सिद्धिः साध्यः शुभः शुक्लो ब्रह्मेन्द्रो वैधृतिस्तथा
कीर्तितस्ते योगगणः करणं श्रूयतामिति । बवश्च बालवश्चैव कौलवस्तैतिलस्तथा
गरश्च वणिजश्चापि विष्टिश्च शकुनिस्तथा । चतुष्पाच्चापि नागश्च किंस्तुघ्न इति कीर्तितम्