जन्ममृत्युजराव्याधिहरं सर्वहरं परम् । कालस्य तरणोपायं भजनं परमात्मनः
आनन्दनन्दनस्यैव परिपूर्णतमस्य च । शृणु कालगतिं वत्स मदीयज्ञानगोचराम्
नराणां च पितॄणां च सुराणां चापि ब्रह्मणः । नागानां राक्षसादीनां तत्परेषां च पुत्रक
कथयामि निगूढार्थं सावधानं निशामय । सर्वस्माच्च परं स्थानं सर्वाधारो महान्विराट्
यस्य लोमसु विश्वानि चासंख्यानि च तानि च । सर्वस्माच्च परं सूक्ष्मं परमाणुं निशामय
कालारम्भात्मकं सर्वमनूरं परमीप्सितम् । चरमः सद्विशेषाणामनेकोऽसंयुतः सदा
परमाणुः स विज्ञेयो नृपामैक्यभ्रमो यतः । परमाणुद्वयेनाणुस्त्रसरेणुस्तु ते त्रयः
त्रसरेणुत्रिकेणापि त्रुटिरुक्ता मनीषिभिः । वेधस्त्रुटिशतेनैव त्रिवेधेन लवस्तथा
त्रिलवेन निमेषश्च त्रि निमेषेण च क्षणः । काष्ठा पञ्चक्षणेनैव लघुश्च दशकाष्ठया
लघुपञ्चदशं दण्डस्तत्प्रमाणं निशामय । द्वादशार्धपलोन्मानं चतुर्भिश्चतुरङ्गुलैः
स्वर्णमाषैः कृतच्छिद्रं यावत्प्रस्थजलप्लुतम् । दण्डद्वये मुहूर्तः स्यात्वष्टिदण्डात्मिका तिथिः
तदष्टभागः प्रहरः प्रमाणं च निरूपणम् । चतुर्भिः प्रहरै रात्रिश्चतुर्भिर्दिनमुच्यते
तिथिपञ्चदशेनैव पक्षमानं प्रकीर्तितम् । पक्षद्वयेन मासः स्याच्छुक्लकृष्णाभिधेन च
ऋतुर्मासद्वयेनैव तत्षट्केनैव वत्सरः । वसन्तग्रीष्मवर्षाश्च शरद्धेमन्तशीतकाः
वर्षाः पञ्चविधा ज्ञेयाः कालविद्भिर्निरूपिताः । संवत्सरः प्रवत्सर इलावत्सर एव च
अनुवत्सरो वत्सरोऽयमिति कालविदो विदुः । अब्दो द्विषट्कमासैश्च तन्नाम शुणु चोद्धव
वैशाखो ज्येष्ठ आषाढः श्रावणो भाद्र एव च । आश्विनः कार्तिको मार्गः पौषो माघस्तु फाल्गुनः
सैत्रस्तु चरमो ज्ञेयो वर्षशेषी निरूपितः । वसन्तश्चैत्रवैशाखमासयुग्मेन कीर्तितः
ज्येष्ठावाढद्वयेनैव ग्रीष्मस्तु परिकीर्तितः । वर्षा श्रावणभद्रे च ह्याश्विने कार्तिके शरत्
मार्गे पौषे च हेमन्तः शिशिरो माघफाल्गुने । अब्दस्तु चायनै द्वे वै चोत्तरे दक्षिणायने
माघादिषड्विनिर्मितमुत्तरायणमीप्सितम् । श्रावणादिमासषट्कं दक्षिणायनमेव च
माघादाषाढपर्यन्तं दिनं वृद्धं क्रमेण वै । नक्तं वृद्धं श्रावणश्च पौषपर्यन्तमेव च
प्रतिपत्पूर्णिमान्तश्च शुक्लपक्षः प्रकीर्तितः । पूर्णिमायाः प्रतिपदश्चामावास्यान्त एव च
कृष्णपक्षस्तु विज्ञेयो वेदविद्भिर्निरूपितः । द्वितीया च तृतीया च चतुर्थी पञ्चमी तथा
षष्ठी च सप्तमी चैव ह्यष्टमी नवमी तथा । दशम्येकादशी चापि द्वादशी च त्रयोदशी
चतुर्दशी कुहूर्यावद्दिनं तु गणनं स्मृतम् । अश्विनी भरणी चापि कृत्तिका रोहिणी तथा
मृगशिरस्त्थाऽऽर्द्रा च नक्षत्रे द्वे पुनर्वसू । पुष्याश्लेषे मघा चैव पूर्वा चोत्तरफाल्गुनी
हस्तचित्रे तथा स्वाती विशाखा चानुराधिका । ज्येष्ठा मूलं तथा ज्ञेया पूर्वाषाढोत्तरा तथा
श्रवणाभिजिती चैव धनिष्ठा च प्रकीर्तिता । ततः शतभिषा ज्ञेय पूर्वाभाद्रपदा तथा
तथोत्तरा तु विज्ञेया रेवती चरमा स्मृता । अष्टाविंशति नक्षत्रं कलत्रं शशिनस्तथा