सद्यः पतति देहोऽयं विना येन सदात्मना । तं निषेव्य कालगतिं तरत्येव हि केवलम्
आयुर्हरति सर्वेषां प्राणिनां रविरेव च । श्रीहरेः शुद्धभक्तानां सतां पुण्यवतां विना
विधेर्मानसिकान्पुत्रांश्चतुरः पश्य पुत्रक । सनकादीन्भागवतान्येषां च सुस्थिरं वमः
रुद्राद्यान्वयसा नित्याञ्ज्ञातिनां च गुरोर्गुरून् । बालाननुपनीतांश्च पञ्चवर्षशिशून्यथा
अम्यन्तरे महास्फीतान्सस्मितांश्च दिगम्बरान् । श्रीकृष्णध्यानपूताश्च तीर्थपूतांश्च वैष्णवान्
वेदवेदाङ्गशास्त्राणां चिन्ताहीनान्प्रफुल्लितान् । भक्त्या दिवानिशं शश्वद्धरिभावेन तत्परान्
बाह्यपूजाविहीनांश्च पूतान्मानसिकांस्तथा । मृत्युञ्जयान्महाभागान्कालव्यालजितस्तथा
सनकं च सनन्दं च तृतीयं च सनातनम् । परं सनत्कुमारं च ये स्मरन्ति च सर्वशः
तीर्थस्नानफलं लब्ध्वा मुच्यते कृतपातकात् । हरिभक्तिर्भवेत्तेषां हरिदास्यं लभन्ति च
मृकण्डुबालकं पश्य कर्मणा च द्विजोत्तमम् । दशवर्षायुषं तीव्रं ज्वलन्तं ब्रह्मतेजसा
हरिसेवनतः पश्चात्सप्तकल्पान्तजीविनम् । वोढुं पञ्चशिखं पश्य लोमशं चाऽऽसुरिं तथा
सर्वकर्मविहीनं च हरिसेवनतत्परम् । शतकल्पायुषं चैव ध्यायमानं हरेः पदम्
जमदग्नेः सुतं पश्य रामं तं चिरजीविनम् । हनुमन्तं बलिं व्यासमश्वत्थामानमेव च
विभीषणं कृपं विप्रं जाम्बवन्तं च भल्लुकम् । हरिभावनया चैते शुद्धाः सुचिरजीविनः
सिद्धेन्द्रेषु मुनीन्द्रेषु नरेष्वन्येषु चोद्धव । हरिभावनशुद्धाश्च सर्वे ते चिरजीविनः
प्रह्लादं पश्य दैत्येषु हिरण्यकशिपोः सुतम् । हरिद्विषो दुरन्तस्य हरिभावनतत्परम्
चिरायुषं कालजितं पश्यान्यं चाप्यसंख्यकम् । अनेकजन्मतपसा लब्ध्वा जन्म च भारते
ये हरिं तं न सेवन्ते ते मूढाः कृतपापिनः । वासुदेवं परित्यज्य विषये निरतो जनः
त्यक्त्वाऽमृतं महामूढो विषं भुङ्क्ते निजेच्छया । कस्य स्त्री कस्य वा पुत्रः कस्य वा बान्धवास्तथा
कः कस्य बन्धुर्विपदि श्रीकृष्णेन विना भुवि । तस्मात्सन्तः सदा कृष्णं भजन्त्येव दिवानिशम्
जन्ममृत्युजराव्याधिहरं सर्वहरं परम् । कालस्य तरणोपायं भजनं परमात्मनः
आनन्दनन्दनस्यैव परिपूर्णतमस्य च । शृणु कालगतिं वत्स मदीयज्ञानगोचराम्
नराणां च पितॄणां च सुराणां चापि ब्रह्मणः । नागानां राक्षसादीनां तत्परेषां च पुत्रक
कथयामि निगूढार्थं सावधानं निशामय । सर्वस्माच्च परं स्थानं सर्वाधारो महान्विराट्
यस्य लोमसु विश्वानि चासंख्यानि च तानि च । सर्वस्माच्च परं सूक्ष्मं परमाणुं निशामय
कालारम्भात्मकं सर्वमनूरं परमीप्सितम् । चरमः सद्विशेषाणामनेकोऽसंयुतः सदा
परमाणुः स विज्ञेयो नृपामैक्यभ्रमो यतः । परमाणुद्वयेनाणुस्त्रसरेणुस्तु ते त्रयः
त्रसरेणुत्रिकेणापि त्रुटिरुक्ता मनीषिभिः । वेधस्त्रुटिशतेनैव त्रिवेधेन लवस्तथा
त्रिलवेन निमेषश्च त्रि निमेषेण च क्षणः । काष्ठा पञ्चक्षणेनैव लघुश्च दशकाष्ठया
लघुपञ्चदशं दण्डस्तत्प्रमाणं निशामय । द्वादशार्धपलोन्मानं चतुर्भिश्चतुरङ्गुलैः