तस्येश्वरस्य किं रूपं कर्म वा किं जगत्पते
नारदस्य वचः श्रुत्वा प्रहस्य भगवानृषिः
इति श्रीब्रह्मवैवर्त्ते महापुराणे ब्रह्मखण्डे सौतिशौनकसंवादे नारायणं प्रति नारदप्रश्नो नामैकोनत्रिंशत्तमोऽध्यायः
श्रीनारायण उवाच वाणीशिवात्रिपथगा कमलादिकाश्च संचिन्तयेद्भगवतश्चरणारविन्दम्
संसारसागरमतीव गभीरघोरं दावाग्निसर्पपरिवेष्टितचेष्टिताङ्गम्
गोवर्द्धनोद्धरणकीर्त्तिरतीव खिन्ना भूर्धारिता च दशनाग्रत एव चार्द्रा
वेदाङ्गवेदमुखनिःसृतकीर्त्तिरंशैर्वेदाङ्गवेदजनकस्य हरेर्विधातुः
गोपाङ्गनावदनपङ्कजषट्पदस्य रासेश्वरस्य रसिकारमणस्य पुंसः
चक्षुर्निमेषपतितो जगतां विधाता तत्कर्म वत्स कथितुं भुवि कः समर्थः
यूयं वयं तस्य कलाकलांशाः कलाकलांशा मनवो मुनीन्द्राः
सहस्रशीर्षा शिरसः प्रदेशे बिभर्त्ति सिद्धार्थसमं च विश्वम्
गोलोकनाथस्य विभोर्यशोऽमलं श्रुतौ पुराणे नहि किंचन स्फुटम्
विश्वेषु सर्वेषु च विश्वधाम्नः सन्त्येव शश्वद्विधिविष्णुरुद्राः 1.30.
करोति सृष्टिं स विधेर्विधाता विधाय नित्यां प्रकृतिं जगत्प्रसूम्
ब्रह्मस्वरूपा प्रकृतिर्न भिन्ना यया च सृष्टिं कुरुते सनातनः
नारायणी सा परमा सनातनी शक्तिश्च पुंसः परमात्मनश्च
गत्वा विवाहं कुरु वत्स साम्प्रतं कर्तुं प्रयुक्तश्च पितुर्निदेशः
स्वपत्नीं पूजयेद्यो हि वस्त्रालङ्कारचन्दनैः
सा च योषित्स्वरूपा च प्रतिविश्वेषु मायया
दिव्या स्त्री पूजिता येन पतिपुत्रवती सती
मूलप्रकृतिरेका सा पूर्णब्रह्मस्वरूपिणी
प्राणाधिष्ठातृदेवी या कृष्णस्य परमात्मनः
नारायणप्रिया लक्ष्मीः सर्वसम्पत्स्वरूपिणी 1.30.
सावित्री वेदमाता च पूज्यरूपा विधेः प्रिया
इति श्रीब्रह्मवैवर्त्ते महापुराणे ब्रह्मखण्डे सौतिशौनकसंवादे भगवत्स्तुतितत्स्वरूपवर्णनं नाम त्रिंशत्तमो ऽध्यायः
श्रीगणेशाय नमः सावित्री वै सृष्टिविधौ प्रकृतिः पञ्चधा स्मृता
आविर्बभूव सा केन का वा सा ज्ञानिनां वरा
सर्वासां चरितं पूजाविधानं कथमीप्सितम्
नारायण उवाच किंचित्तथापि वक्ष्यामि यच्छ्रुतं धर्मवक्त्रतः
प्रकृष्टवाचकः प्रश्च कृतिश्च सृष्टिवाचकः