कया वा संपदा भक्त विस्मरामि च तं प्रभुम् । प्रबोधो नास्ति तद्भेदे येन मां बोधयेद्बुधः
मां च बोधयितुं शक्ता न सावित्री सरस्वती । न वेदा न च वेदाङ्गाः के वा सन्तश्च के सुराः
सहस्रवक्त्रोऽनन्तश्च वेदानां जनको विधिः । न शंभुनं गणेशाश्च योगीन्द्राणां गुरोर्गुरुः
स्थितेर्गतिश्चिन्तनीया मार्गशून्ये कुतो गतिः । कालसाध्यं च सर्व च सुखं दुःखं शुभाशुभम्
दुर्निवारः स कालश्च कालसाध्यं जगत्सु च । उत्तिष्ठ मथुरां गच्छ सुखं वत्स मनोहरम्
व्रजवाकं परित्यज्य भवांश्च गमनोत्सुकः । सुचिरं कृष्णविच्छेदो दुःखाय न सुखाय च
पश्य चन्द्रमुखं तस्य जन्ममृत्युजरापहम् । राधिकावचनं श्रुत्वा रुरोद भृशमुद्धवः रुदतीं राधिकां दृष्ट्वा बन्धुविच्छेदकातराम्
इतिo श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo राधोद्धवसंo पञ्चनवतितमोऽध्यायः
अथ षण्णवतितमोऽध्यायः नारायण उवाच श्रीकृष्णस्मरणं कृत्वा गमनोन्मुखमुद्धवम् । नतं राधापदाम्भोजे शिरसा पुलकाञ्चितम्
उवाच माधवी गोपी रुदती प्रेमविह्वला । भक्तं रुदन्तमुच्छैश्च राधाविच्छेदकातरम्
माधव्युवाच उद्धव शृणु वक्ष्यामि क्षणं तिष्ठ यथोचितम् । निगूढं परमं ज्ञानं यत्ते मनसि वाञ्छितम्
सुदुर्लभं पुराणेषु वेदेषु गोपनीयकम् । प्रश्नं कुरु महाभाग राधिकां त्रिजगत्प्रसूम्
इत्युक्त्वा सा च गोपीशा समुवास मुसंसदि । उवाच मधुरं शान्तामुद्धवश्चापि राधिकाम्
उद्धवउवाच एकाकी भवमायाति यात्येकाकी पुनः पुनः । प्राणी कर्मानुरोधेन स्वकर्मफलभुक्पुमान्
कर्मणा जायते जन्तुः कर्मणौव प्रलीयते । सुखं दुःखं भयं शोकं कर्मणैवाभिपद्यते
जन्तुर्भोगावशेषेण भोगं भुङ्क्ते भवेषु च । पुनश्च कर्मणो भोगात्समायाति च याति च
रत्नादिकं च यत्किचिन्मह्यं दत्तं त्वया सति । मया सार्ध न यात्येव तेन मे किं प्रयोजनम्
भवाब्थितारणे देवि भवती तरणिर्वरा । कर्णधारः स्वयं कृष्णः सर्वेषां पारकारकः
किंचिद्यानं देहि मह्यं भवाब्धिपारकारणम् । प्राप्य प्रसातं यास्यामि मथुरां कृष्ममूलकम्
यां यां कालगतिं मातः सुराणां च नृणामपि । पितॄणां ब्रह्मलोकस्य तदूर्ध्वस्य च तां वद
तामेव दुस्तरां घोरां तीर्त्वा यामि हरेः पदम् । एवंभूतमुपायं च देहि मे कमलालये
दूरतो यत्पदाम्भोजं ध्यायन्ते च दिवानिशम् । देवा ब्रह्मेशशेषाद्यास्त्वं तद्वक्षः स्थलस्थिता
उद्धवस्य वचः श्रुत्वा जहास कमलालया । वाससा नेत्रनीरं च संभार्ज्य तमुवाच सा
राधोवाच माधवीवचनेनैव करोषि प्रश्नमुद्धव । स्त्रीजातिरबला लोके किं वा ज्ञानं ददामि ते
शुद्धां कालगतिं वत्स जानाति भगवान्हरिः । ब्रह्म महेशः शेषश्च वेदाश्चत्वार एव च
किंचिद्वेदानुसारेण सन्तो जानन्ति पुत्रक । श्रूयतां कुष्णवक्त्रेण गोलोके रासमण़्डले
गोलोके चापि वैकुण्ठे ब्रह्मलोके च सांप्रतम् । या च दृष्टा कालगतिस्तामेव कथयामि ते
नृणां पितॄणां देवानां ब्रह्मलोकादिकस्य च । बहिर्लोकस्य ब्रह्माण्डात्पातालानां च निश्चितम्
दुरत्ययां कालगतिं येनोपायेन पण्डिताः । निस्तरन्ति बुधश्रेष्ठ कथयामि निशामय
भजन्ति जगतां नाथं कालकालं जगद्गुरुम् । निर्गुणं च निरीहं च परमात्मानमीश्वरम्