अथ पञ्चनवतितमोऽध्यायः नारायण उवाच उद्धवस्य वचः श्रुत्वा चेतनं प्राप्य राधिका । सा चोवाच समुत्थाय रत्नसिंहासने वरे
उवाच मधुरं देवी हृदयेन विदूयता । गोपीभिः सप्तभिर्भकत्या सेविता श्वेतचामरैः
राधिकोवाच मथुरां गच्छवत्स त्वं मांच (न) विस्मर संवदा । अतोऽप्यधर्मो नास्त्येव भवतो भवसागरे
मदीयं वचनं सर्वं गत्वा कथय सांप्रतम् । श्रीकृष्णं परमानन्दं शीघ्रमानय मत्प्रभुम्
योषिज्जन्मनि योषित्सु संप्राप्य तादृशं पतिम् । भेदो बभूव कस्या वा मदन्या काऽपि दुःखिनी
किं ददासि प्रबोधं मे नास्ति मे बोधनोचितम् । निष्फलो देहिनां देहो विनाऽऽत्मानं सहोद्धव
संप्रीत्या सह सौभाग्यं गौरवं नित्यनूतनम् । अतीव दुर्लभं प्रेम रहस्यं नवसंगमम्
स्मरामि मनसा शश्वन्नान्यो मनसि वर्तते । रात्रौ निद्रां परित्यज्य स्मरणं शोकवर्धनम्
मामुद्धर ध्रुवं वत्स निमग्नां शोकसागरे । जीवाभवप्रदानेन तीर्थे स्नानफलं नृणाम्
प्रबोधितुं न शक्नोमि दुर्निवारं च मानसम् । चिन्तये चरणाम्भोजं कृष्णस्य परमात्मनः
तद्गुणं महिमानं च प्रीतिं च प्रेमसागरम् । स्मारं स्मारं च सौभाग्यं मनो मे न स्थिरं चलम्
जगतां युवतीनां च कासां वा दुःखमीदृशम् । श्रीकृष्णभेददुःख च का वा जानाति मां विना
किं चिज्जानाति सीता साऽप्यहं च विधिबोधितम् । मत्परा दुःखिनी नास्ति कामिनीषु जगत्त्रये
कावायाति प्रतीतिं मे श्रुत्वा च मानसीं व्यथाम् । कासां वा मत्समं दुःखं युवतीनां सुतोद्धव
राधिकासदृशी स्त्रीषु न भूता न भविष्यति । दुःखिनी विरहातप्ता सुखसौभाग्यवर्चिता
संप्राप्य कल्पवृक्षं च पतिं च जगतां पतिम् । वञ्चिताऽहं विधात्रा च निर्दयेन च पापिना
जीवनं सफल जन्म सुस्निग्धं चक्षुषी मनः । तत्पादपद्मवक्त्रेन्दुरूपवेषप्रदर्शनात्
यन्नामश्रुतिमात्रेण पञ्च प्राणाः प्रहर्षिताः । स्मृतिमात्रात्प्रफुल्ल्यन्त आत्मा सुस्निग्ध एव च
यश्च पस्पर्श सुरतौ यशस्त्रिभुवनष्वपि । कथा वा संपदा वत्स विस्मरामि तमीश्वरम्
त्रैलोक्यविजयं रूपं गुणमेव बिभर्ति यः । न निर्मितो यो विधिना तेनैव निर्मितो विधिः
तं विधेश्च विधातारं दातारं सर्वसंपदाम् । कल्पवृक्षात्परं शान्तं लक्ष्मीकान्तं मनोहरम्
सर्वेशं सर्वबीजं च परमात्मानमीश्वरम् । कया वा संपदा तात विस्मरामि चतं पतिम्
यस्य निर्मञ्छनार्हश्च न चन्द्रो न च मन्मथः । नैवाश्विनीकुमारश्च गुणसाभ्यं न दिश्वतः
ध्यायन्ते यत्पदाम्भोजं ब्रह्मेशशेषसंज्ञकाः । कया वा संपदा तात विस्मरामि च तं प्रभुम्
स्वप्ने पश्यन्ति ये रूपमतुलं च मनोहरम् । तेऽपि सर्वं परित्यज्य ध्यायान्ते तमर्निशम्
गुणेन शैलः सलिलं शुष्ककाष्ठं द्रवेदिति । मृतवृक्षो मुकुलितः स्तम्भितश्च समीरणः
सूर्यश्च जलधिश्चैव स्थगितो भक्तिभावतः । कया वा संपदा पुत्र विस्मरामि चतं प्रियम्
यद्भयाद्वाति वातोऽयं सूर्यस्तपति यद्भयात् । वर्षतीन्द्रो दहत्यग्निर्मृत्युश्चरति जन्तुषु
यद्भयात्फलिनो वृक्षाः पुष्पिताः समयेऽपि च । समुद्राः स्वात्मविषये ग्रहाश्च मुनयः सुराः
कालस्य कालः संहर्तुः संहर्ता स्रष्टुरीश्वरः । स्वाधीनश्च स्वतन्त्रश्च स्वयमेवाऽऽत्मसंज्ञकः