राधा श्रीदामशापेन वृषभानसुता भुवि । सनत्कुमारशापेन वयमेव महीतले
क्षीरोदसागरं रम्यं श्वेतद्वीपं मनोहरम् । तिस्रो भगिन्यो भक्त्या च विष्णुंद्रष्टुं गता वयम्
अम्युत्थानादि न कृतं कोपादस्माञ्छशाप ह । सनत्कुमारो भगवान्योगीन्द्राणां गुरोर्गुरुः
सनत्कुमार उवाच मूढास्तिष्ठत भूमौ च पुनः स्वर्गं न यास्यथ । मर्त्यप्राणिप्रिया भूत्वा चाहंकारैण हैतुना
पुनर्वरं च प्रत्येकं ददौ तुष्टो द्विचेश्वरः । विष्णोर्वशस्य शैलस्य हिमाधारस्य कामिनी
ज्येष्ठा भवतु त्वत्कन्या भविष्यत्येव पार्वती । धन्या प्रिया तु भवतु योगिनो जनकस्य च
तस्य कन्या महालक्ष्मीः सीतादेवी भविष्यति । वृषभानस्य वैश्यस्य योगिनां प्रवरस्य च
दुर्वाससश्च शिष्यस्य कनिष्ठा च कलावती । भविष्यति प्रिया साध्वीद्वापरान्ते च गोकुले
कलावतीसुता राधा देवी गोलोकवासिनी । श्रीदामगोपशापेन भविष्यति न संशयः
ईशो ब्रह्मेशशेषाणां भारावतरणेन च । आगमिष्यति पृथवीं च पुण्यक्षेत्रं च भारतम्
कलावती वृष्भानः कौतुकात् कन्यया सह । जीवन्मुक्तश्च गोलोकं गमिष्यति न संशयः
धन्या च सीत्या सार्धं वैकुण्ठं च गमिष्यति । मेनका योगिनी सिद्धा पार्वत्याश्च वरेण च
कल्पान्ते विष्णुलोके च लक्ष्मीवन्मोदते चिरम् । विना विपत्त्या महिमा केषां कुत्र भविष्यति
कर्मणा च गते दुःखे प्रभवेद्दुर्लभं सुखम् । पुरा पितणां कन्याश्च स्वर्मभोगविलासिकाः
लक्ष्मीसमा वरेणापि विप्रस्य विष्णुदर्शनात् । कर्मक्षयं चाप्यस्माकं बभूव विष्णुदर्शनात्
पुण्ये तेन तीव्रेण कुमारस्यापि दर्शनम् । श्रुतं तत्र कुमारास्याज्ज्ञानं परमदुर्लभम्
ब्रह्मविष्णुशिवादीनां सिद्धानां जगतामपि । ईश्वरः परमात्मा च श्रीकृष्णः प्रकृतेः परः निर्गुणश्च निरीहश्च परः स्वेच्छामयो वरः
तुलस्युवाच सर्वप्राणिषु देवाश्च तिष्ठन्त्येव पृथक्पृथक् । प्राणो विष्णुश्च विषयी मनो ब्रह्मा च चेतना
प्रकृतिर्बुद्धिरूपा च सर्वशक्त्यधिदेवता । ज्ञानस्वरूपः शंभुश्च स्वयं धर्मश्च पूरुषः
निर्गुणः परमात्मा च तद्ब्रह्म प्रकृतेः परम् । स एव कृष्णः साक्षी च कर्मणां जीविनामपि
भोक्ता च सुखदुःखानां जीवस्तत्प्रतिबिम्बकः । चक्षुषोश्चन्द्रसूर्यौ च जिह्वायां च सरस्वती
वसुंधरा त्वचि सदा बाह्वोस्ते लोकपालकाः । आत्मनश्चापि ते सर्पे परिचारकरूपिणः
आत्मन्येव प्रियास्ते च सर्वे गच्छन्ति जीविनः । यथा संसदि संसारे नरदेह(व) मिवानुगाः
तस्मात्सर्वात्मनाऽऽत्मानं भजन्ति संततं सदा । सन्तश्च परया भक्त्या ध्यायन्ते योगिनो मुदा
कर्मिणां कर्मणां साक्षी कुतः कर्म च गोपनम् । अन्तर्यामी च कृष्णश्च प्रचारं कुरुते मुदा
कालिकोवाच नरा बालाश्च वृद्धाश्च युवानस्त्रिविधास्तथा । देवादयश्च चे सिद्धाः सर्वे जानन्ति तं परम्
उद्धव उवाच सांप्रतं मूर्च्छितां राधां युक्तो बोधयितुं बुधः । अत्र युक्तिः प्रधाना त्वं तां प्रबोधय चोद्धव
चेतनं कुरु कल्याणि जगन्मातर्निबोध माम् । उद्भवं कृष्णभक्तस्य किंकरस्यापि किंकरम्
प्रसादं कुरु मातर्मां यास्यामि मथुरां पुनः । न स्वतन्त्रः पराधीनो योषा दारुमयी यथा
यथा वृषो वशीभूतो वृषवाहस्य संततम् । तथा मातर्जगत्सर्वं जगन्नाथस्य निश्चितम्