तस्य यावन्ति लोमानि तानि विश्वानि सन्ति च । स एव षोडशांशश्च कृष्णस्य परमात्मनः
तस्यैव किं यशः शौर्चं महिमानमनूपमम् । घस्मरी गोपकन्या च किं वा जानाति माधवी
माधव्युवाच मया यदुक्तं न ज्ञात्वा मूढा जल्पन्ति गोपिकाः । उद्धव शुणु मे वाक्यं यन्मया कथितं शुभम्
स्वेच्छया सगुणो विष्णुः स्वेच्छया निर्गुणोभवेत् । भुवो भारावतरणे गोपवेषः शिशुर्विभुः
यदि वेदाः पुराणानि सिद्धाः सन्तश्च संततम् । ब्रह्मेशशेषभक्ताश्च न जानन्ति यमीश्वरम्
तं किं जानामि मूढाऽहं घस्मरी गोपकन्यका । तथाऽपि मद्वचः सत्यं श्रूयतां वत्स तत्क्षणम्
किमनिर्वचनीयं च रूपं शौर्यं यशो बलम् । वीर्यं वेषं च सिद्धिं चाप्यन्यो वा यो गुणो हरेः
स्वेच्छामयस्य तस्यैव सगुणस्य च सांप्रतम् । किमनिर्वचनीयं च वर्तते तद्विशेषणम्
निर्गुणस्य च विष्णोश्च वेहहीनस्य स्वात्मनः । वर्तते च किमाख्येयं तस्य रूपादिकं च किम्
मां निन्दति महामूढा न बुद्धा वचनं मम । एषा जानाति किं मूढा तं सत्यं प्रकृतेः परम्
ज्योतिः स्वरूपं परमं परमात्मानमीश्वरम् । तमनिर्वचनीयं च भक्तानुग्रहविग्रहम्
यत्पादपद्भं पद्मा सा त्रैलोक्यजननी परा । सेवते कम्पिता भीता दासीवत्सततं भिया
विष्णुमाया च प्रकृतिर्मूलरूपा सनातनी । ब्रह्मस्वरूपा परमा भीता दक्षिणपार्श्वतः
सरस्वती जडीभूता भीता च परमेश्वरी । स्तोतुं न शक्ता वेदाः किं स्तुवन्ति परमेश्वरम्
तासां तद्वचनं श्रुत्वा चोद्धवो भक्तिविह्वलः । पुलकाञ्चितसर्वाङ्गो रुरोद च पपात च
मूर्च्छं संप्राप्य भक्त्त्या च ध्यात्वा तं परमेश्वरम् । तुच्छं मेने स चाऽऽत्मानं गोपीं भक्त्याऽप्युवाच सः
उद्धव उवाच धन्यं यशस्यं द्वीपानां जम्बुद्वीपं मनौहरम् । यत्र भारतवर्षं च पुण्यदं शुभदं तथा
वणिजां च पुश्यकृतं वाणिज्यस्थलमीप्सितम् । अत्र कृत्वा सुपुण्यं च भुङ्क्तेऽन्यत्र शुभं फलम्
धन्यं भारतवर्षं तु पुण्यदं शुभदं वरम् । गोपीपादाब्जरजसा पूतं परमनिर्मलम्
ततोऽपि गोपिका धन्या सान्या योषित्सु भारते । नित्यं पश्यन्ति राधायाः पादपद्मं सुपुण्यदम्
षष्टिवर्षसहस्राणि तपस्तप्तं च ब्रह्मणा । राधिकापादपद्मस्य रेणूनामुपलब्धये
गोलोकवासिनी राधा कृष्णप्राणाधिका परा । तत्र श्रीदामशापेन वृषभानसुताऽधुना
ये ये भक्ताश्च कृष्णस्य देवा ब्रह्मादयस्तथा । राधायाश्चापि गोपीनांकरां नार्हन्ति षोडशीम्
कृष्णभक्तिं विजानाति योगीन्द्रश्च महेश्वरः । राधा गोप्यश्च गोपाश्च गोलोकवासिनश्च ये
किंचित्सनत्कुमारश्च ब्रह्मा चेद्विषयी तथा । किंचिदेव विजानन्ति सिद्धा भक्ताश्च निश्चितम्
धन्योऽहं कृतकृत्योऽहमागतो गोकुलं यतः । गोपिकाभयो गुरुभ्यश्च हरिभक्तिं लभेऽचलाम्
मथुरां च न यास्यामि तीर्थकीर्तेश्च कीर्तनम् । श्रोष्यामि किंकरो भूत्वा गोपीनां जन्मजन्मनि
न गोपीभ्यः परो भक्तो हरेश्च परमात्मनः । यादृशीं लेभिरेगोप्यो भक्तिं नान्ये च तादृशीम्
कलावत्युवाच पितणां मानसी कन्या धन्या मेना कलावती । वयं तिस्रो भगिन्यश्च भ्रमामः पृथिवीतले
धन्या जनकपत्नी नः सीतामाता पतिव्रता । अयोनिसंभवा राधा अहं चायोनिसंभवा