सत्यमुक्तं च सत्यस्य यत्तदेव यथोचितम् । धत्ते भारावतरणे पृथिव्याश्च मनोहरम्
सुखमाह्लादकं रम्यं भक्तानुग्रहविग्रहम् । किमनिर्वचनीयं च रूपं जनमनोहरम्
कोटिकन्दर्पलावण्यं लीलाधाम शुभाक्षयम् । यत्पादपद्ममधुरं मधु मन्दाकिनीजलम्
दध्रे शिरसि भक्त्या च सर्वेशः शंकरः परः । शश्वत्करोति वैरागी तीर्थकीर्तेश्च कीर्तनम्
क्षणं नृत्यति भक्त्या च पञ्चवक्त्रेण गायति । आहारं भूषणं वस्त्रं परित्यज्य दिगम्बरः
ब्रह्म ज्योतिः स्वरूपं च ध्यात्वा शुभ्रं सुनिर्मलम् । ब्रह्मा च तपसा जन्म नयत्येव हि सेवया
सुशीलोवाच निर्मञ्छनार्हं न भवेत्तस्य कामशतं शतम् । चन्द्रोऽशिवनीकुमारो वा रुपेषु केन गण्यते
असंख्येषु च विश्वेषु ब्रह्मविष्णुशिवादयः । मुनयो मनवः सिद्धा भक्ताः सन्तश्च संततम्
ध्यायन्ते यत्पदाम्भोजं निर्गुणस्याऽऽत्मनश्च वै । वेदाः स्तोतुं न शक्ताश्च यमीशं च सरस्वती
जडीभूता च भीता च स्तवनेन क्षमाण्येतु । सहस्रवक्त्रः स्तवने कम्पितश्च निरन्तरम्
वेदानां जनको ब्रह्मा स्तोत्रेण तस्य हीश्वरः । तं सत्यं नित्यमीशं च माधवी परिनिन्दति
अपवित्रा सभा भूता गोपीनां जीवनं वृथा । तासु पुण्यवती शोकः प्रणश्यति न संशयः
रत्नमालोवच दधार वामहस्तेन शैलं गोवर्धनं हरिः) । ततः किं तद्दशः शौर्य जगतां जनकस्य च
शैलानां च सहस्रं यो भेतुं शक्तश्च दैत्यराट् । लीलामात्रेण तेषां च लक्षं हन्तु क्षमो हरिः
यदंशकलया जातः सूकरो विष्णुरीश्वरः । वसुधां दशनाग्रेण चोद्दधार च लीलया
शैलानां च सहस्राणि यत्र सन्ति महीतले । दैत्याश्च वाऽप्यसंख्याश्च वीराः शूरास्तथैव च
तेनैव कर्मणा तस्य न शौर्यं न च पौरुषम् । न यशाश्च प्रशंसा वा सखि सर्वात्मनाऽऽत्मना
पारिजातोवाच सप्तद्वीपा च वसुधा सशैलवनसागरा । काञ्चनीभूमिसहिता सर्वाधारा मनोहरा
सप्त स्वर्गाश्च विविधा ब्रह्मलोकावधि प्रिये । विचित्राः सुन्दराश्चैव पातालानां च सप्त च
एतैः परिमितं विश्वं ब्रह्माण्डं ब्रह्मणा कृतम् । महद्विष्णोर्लोमकूपे तदेवं चाणुवत्स्थितम्
तस्य यावन्ति लोमानि तानि विश्वानि सन्ति च । स एव षोडशांशश्च कृष्णस्य परमात्मनः
तस्यैव किं यशः शौर्चं महिमानमनूपमम् । घस्मरी गोपकन्या च किं वा जानाति माधवी
माधव्युवाच मया यदुक्तं न ज्ञात्वा मूढा जल्पन्ति गोपिकाः । उद्धव शुणु मे वाक्यं यन्मया कथितं शुभम्
स्वेच्छया सगुणो विष्णुः स्वेच्छया निर्गुणोभवेत् । भुवो भारावतरणे गोपवेषः शिशुर्विभुः
यदि वेदाः पुराणानि सिद्धाः सन्तश्च संततम् । ब्रह्मेशशेषभक्ताश्च न जानन्ति यमीश्वरम्
तं किं जानामि मूढाऽहं घस्मरी गोपकन्यका । तथाऽपि मद्वचः सत्यं श्रूयतां वत्स तत्क्षणम्
किमनिर्वचनीयं च रूपं शौर्यं यशो बलम् । वीर्यं वेषं च सिद्धिं चाप्यन्यो वा यो गुणो हरेः
स्वेच्छामयस्य तस्यैव सगुणस्य च सांप्रतम् । किमनिर्वचनीयं च वर्तते तद्विशेषणम्
निर्गुणस्य च विष्णोश्च वेहहीनस्य स्वात्मनः । वर्तते च किमाख्येयं तस्य रूपादिकं च किम्
मां निन्दति महामूढा न बुद्धा वचनं मम । एषा जानाति किं मूढा तं सत्यं प्रकृतेः परम्