भारते पुण्यभूमौ च सर्वेषामीप्सिते वरे । लभेत्पतिं हरिं कान्तं तपसा प्रकृतेः परम्
तथाऽपि प्रदहेद्गात्रं कामबाणेन सांप्रतम् । अस्याः शत्रुः कथं चन्द्रो मधुर्वा मधुमाधवौ
शंकरेण प्रदग्धोऽभूत्पुनरेव स मन्मथः । चन्द्रं भक्षतु राहुश्च पुनश्चोद्वमनं तथा
मधुश्च मित्रशोकेन प्राणांस्त्यक्त्वा ययौयमम् । सुधासिन्धुश्च चेन्दुर्यो विषसिन्धुश्च मां प्रति
सुवेषः स्याज्ज्वलद्वह्निश्चन्दनं तद् घृताहुतिः । संततं प्रदहेद्गात्रं सुगन्धिश्च समीरणः
त्यक्ताहारा मम सखी पश्य श्वसिति जीवति । प्रशंसांकुरु कृष्णस्य मुखेन कुरुनन्दन
तन्नामस्मृतिमात्रेण तद्गुणश्रवणेन च । तद्वार्तया च शुभया सहसा चेतनं भवेत्
शशिकलोवाच त्वं किं माधवि जानासि कृष्णमात्मानमीश्वरम् । यं तं ब्रह्मादयो देवा वेदाश्चत्वार एव च
ध्यायन्ति संतसं सन्तः पादपद्मं सुरेप्सितम् । पद्मा सरस्वती दुर्गा सोऽनन्तोऽपि महेश्वरः
यं न जानन्ति सिद्धेन्द्र मुनीन्द्रां मनवस्तथा । सर्वात्मनः कुतो रूपं निर्गुणस्य कुतो गुणाः
सत्यमुक्तं च सत्यस्य यत्तदेव यथोचितम् । धत्ते भारावतरणे पृथिव्याश्च मनोहरम्
सुखमाह्लादकं रम्यं भक्तानुग्रहविग्रहम् । किमनिर्वचनीयं च रूपं जनमनोहरम्
कोटिकन्दर्पलावण्यं लीलाधाम शुभाक्षयम् । यत्पादपद्ममधुरं मधु मन्दाकिनीजलम्
दध्रे शिरसि भक्त्या च सर्वेशः शंकरः परः । शश्वत्करोति वैरागी तीर्थकीर्तेश्च कीर्तनम्
क्षणं नृत्यति भक्त्या च पञ्चवक्त्रेण गायति । आहारं भूषणं वस्त्रं परित्यज्य दिगम्बरः
ब्रह्म ज्योतिः स्वरूपं च ध्यात्वा शुभ्रं सुनिर्मलम् । ब्रह्मा च तपसा जन्म नयत्येव हि सेवया
सुशीलोवाच निर्मञ्छनार्हं न भवेत्तस्य कामशतं शतम् । चन्द्रोऽशिवनीकुमारो वा रुपेषु केन गण्यते
असंख्येषु च विश्वेषु ब्रह्मविष्णुशिवादयः । मुनयो मनवः सिद्धा भक्ताः सन्तश्च संततम्
ध्यायन्ते यत्पदाम्भोजं निर्गुणस्याऽऽत्मनश्च वै । वेदाः स्तोतुं न शक्ताश्च यमीशं च सरस्वती
जडीभूता च भीता च स्तवनेन क्षमाण्येतु । सहस्रवक्त्रः स्तवने कम्पितश्च निरन्तरम्
वेदानां जनको ब्रह्मा स्तोत्रेण तस्य हीश्वरः । तं सत्यं नित्यमीशं च माधवी परिनिन्दति
अपवित्रा सभा भूता गोपीनां जीवनं वृथा । तासु पुण्यवती शोकः प्रणश्यति न संशयः
रत्नमालोवच दधार वामहस्तेन शैलं गोवर्धनं हरिः) । ततः किं तद्दशः शौर्य जगतां जनकस्य च
शैलानां च सहस्रं यो भेतुं शक्तश्च दैत्यराट् । लीलामात्रेण तेषां च लक्षं हन्तु क्षमो हरिः
यदंशकलया जातः सूकरो विष्णुरीश्वरः । वसुधां दशनाग्रेण चोद्दधार च लीलया
शैलानां च सहस्राणि यत्र सन्ति महीतले । दैत्याश्च वाऽप्यसंख्याश्च वीराः शूरास्तथैव च
तेनैव कर्मणा तस्य न शौर्यं न च पौरुषम् । न यशाश्च प्रशंसा वा सखि सर्वात्मनाऽऽत्मना
पारिजातोवाच सप्तद्वीपा च वसुधा सशैलवनसागरा । काञ्चनीभूमिसहिता सर्वाधारा मनोहरा
सप्त स्वर्गाश्च विविधा ब्रह्मलोकावधि प्रिये । विचित्राः सुन्दराश्चैव पातालानां च सप्त च
एतैः परिमितं विश्वं ब्रह्माण्डं ब्रह्मणा कृतम् । महद्विष्णोर्लोमकूपे तदेवं चाणुवत्स्थितम्