श्रीखण्डकाननं रम्यं स्वच्छं चन्द्रसरोवरम् । विस्पन्दकं सुरवनं नन्दनं पुष्पभद्रकम्
भद्रकं हरिणां सार्धं न यास्यामि पुनः पुनः । क्व सा रम्या विकसिता माधवे माधवीलता
क्व गता माधवी रात्रिः क्व मधुः क्वापि माधवः । इस्येवमुक्त्वा सा राधा ध्यात्वा कृष्णपदाम्बुजम्
अथ चतुर्नवतितमोऽध्यायः नारायण उवाच उद्धवो विस्मयं प्राप्य भयं च विपुलं मुने । चेतनं कारयामास तामुवाच मृतामिव
तद्भक्तिं समभिज्ञाय स्वात्मानं भक्तसंख्यकम् । तुच्छं मेने जगत्सर्वं दृष्ट्वा भाग्यवतीं सतीम्
उद्धव उवाच चेतनं कुरु कल्याणि जगन्मातर्नमोऽस्तु ते । त्वमेद प्राक्तनं सर्वं कृष्णं द्रक्ष्यसि सांप्रतम्
त्वत्तो विश्वं पवित्रं च त्वत्पादरजसा मही । सुपवित्रं त्वद्वदनं पुण्यवत्यश्च गोपिकाः
लोकास्त्वामेव गायन्ति संगीतैर्मङ्गलस्तवैः । त्वत्सुकीर्तिं च देवाश्च सनकाद्याश्च संततम्
कृतपापहरां पुण्यां तीर्थपूजां च निर्मलाम् । हरिभक्तिप्रदां भद्रां सर्वविघ्नदिनाशिनीम्
त्वमेव राधा त्वं कृष्णस्त्वं पुमान्प्रकृतिः परा । राधामाधवयोर्भेदो न पुराणे श्रुतौ तथा
राधिकां मूर्च्छितां दृष्ट्वा पश्चात्कृत्वा तमुद्ववम् । उवाच माधवी गोपी राधायाः पुरतः स्थिता
माधव्युवाच किं वा चोरस्य कृष्णस्य रूपं वा वेषमुत्तमम् । किं सुखं विभवं किं वा गौरवं चाप्यनुत्तमम्
किं वा तद्वीर्यमैश्वर्यं शौर्य वा दुरतिक्रमम् । किं वा सिद्धं प्रसिद्धं वा किं वा तुल्यं गुणोत्तमम्
इतो वा कुत आयातः पुनरेव कुतो गतः । बालको गोपवेषश्च नहि राजात्मजः पुमान्
त्वं किं स्मरसि कल्याणि गोपालं नन्दनन्दनम् । आत्मानं रक्षयत्नेन कः प्रियः स्वात्मनः परः
धिक्त्वां राधेऽतिनिर्लज्जां तवैव जीवनं वृथा । जगतो युवतीनां च करोषि सुयशःक्षयम्
नारीणां गोपनं कार्य सुव्यक्ते स्वयशःक्षयम् । यत्नेन चक्षुषो वाऽर्हं सखि संचरणं कृरु
अन्तरे पतिभावं च संगोप्य भावनं कुरु । न वै जातिश्च शत्रूणां मित्राणां च सुरेश्वरि
शत्रुः कार्यवशेनैव मित्रं च कर्मणा भवेत् । स्वकार्यमुद्धरेत्प्राज्ञः कार्यध्वंसेन मूर्खता
कः कस्य वल्लभो राधे कः कस्याप्रिय एव च । कार्यं च समयं ज्ञात्वा सन्तः कुर्वन्ति संततम्
शत्रुर्धनापहारी च प्राणहर्ता ततः परः । कटुवक्ता दुःखदाता शत्रूणां लक्षणं श्रृणु
स्वकुलात्त्वां बहिष्कृत्य विसृज्य शोकसागरे । गृहीत्वा चेतनं प्राणान्निष्ठुरो दारुणो गतः
किं किं स्मरसिमूढे हि त्यज शोकं सुदारुणम् । आत्मानं रक्ष यत्नेन कः प्रियः स्वात्मनः परः
पद्मावत्युवाच भवता कथितं पूर्णं यमुनाजलसंनिधौ । अरसस्य रतिर्दूरं नारीणां न सुखं प्रिये
विद्युज्ज्वारा जले रेखा खलानां प्रीतिरेव च । न नीतिर्तीतिशास्त्रेषु सुविश्वासः खलेषु च
यदा त्वं यमुनाकूले मुखं वीक्ष्य हरेरहो । सस्मितं सकटाक्षं च पुनः कृत्वाऽस्य गोपनम्
पुनः पुनस्त्वं संवीक्ष्य त्वया त्यक्तं च चेतनम् । गृहं त्यक्त्वा गुरुभयं सखीनां वचनं शुभम्
संततं ध्यायसे कृष्णं नाऽऽहारं जीवनं तथा। क्व कृष्णो मथुरायां च क्वापि त्वं कदलीवने
त्वं यदि त्यजसि प्राणान्नाऽऽविर्भवति सोऽधुना । काले द्रक्ष्यसि स्वात्मानं यदि रक्षसि सुन्दरि
चन्द्रमुख्युवाच प्राक्तनेन शुभं सर्वं सुखं च विभवश्चिरम् । दुःखं शोको प्राक्तनेन विपत्संपच्च सांप्रतम्