स एवांशेन भगवान्वैकुण्ठे च चतुर्भुजः
स एव कलया विष्णुः पाता च जगतां प्रभुः
एतत्ते कथितं सर्वं परब्रह्मस्वरूपकम् 1.28.
इत्युक्त्वा शङ्करस्तत्र विरराम च शौनक
मुनिस्तोत्रेण सन्तुष्टो भगवानादिरच्युतः
मुनीन्द्रस्तं संप्रणम्य प्रहृष्टवदनेक्षणः
सौतिरुवाच ऋषिर्नारायणस्यैव बदरीवनसंयुतम्
नानावृक्षफलाकीर्णं पुंस्कोकिलरुतश्रुतम्
ऋषीन्द्रस्य प्रभावेण हिंसाभयविवर्जितम्
सिद्धेन्द्राणां मुनीन्द्राणामाश्रमाणां त्रिकोटिभिः
ददर्श तमृषीन्द्रं च सभामध्ये मनोहरम्
जपन्तं परमं ब्रह्म कृष्णमात्मानमीश्वरम्
उत्थाय सहसाऽऽलिङ्ग्य युयुजे परमाशिषम्
रत्नसिंहासने रम्ये वासयामास नारदम्
उवाच तमृषिश्रेष्ठं भगवन्तं सनातनम्
ज्ञानं सम्प्राप्य योगीन्द्रान्मन्त्रं वै शङ्कराद्विभो 1.29.
दृष्टं मया त्वत्पदाब्जं मनसा प्रेरितेन च
यत्र कृष्णगुणाख्यानं जन्ममृत्युजरापहम्
ब्रह्मविष्णुशिवाद्याश्च सुरेन्द्रश्च सुरा विभो
कस्मात्सृष्टिश्च भवति कुत्र वा संप्रलीयते
तस्येश्वरस्य किं रूपं कर्म वा किं जगत्पते
नारदस्य वचः श्रुत्वा प्रहस्य भगवानृषिः
इति श्रीब्रह्मवैवर्त्ते महापुराणे ब्रह्मखण्डे सौतिशौनकसंवादे नारायणं प्रति नारदप्रश्नो नामैकोनत्रिंशत्तमोऽध्यायः
श्रीनारायण उवाच वाणीशिवात्रिपथगा कमलादिकाश्च संचिन्तयेद्भगवतश्चरणारविन्दम्
संसारसागरमतीव गभीरघोरं दावाग्निसर्पपरिवेष्टितचेष्टिताङ्गम्
गोवर्द्धनोद्धरणकीर्त्तिरतीव खिन्ना भूर्धारिता च दशनाग्रत एव चार्द्रा
वेदाङ्गवेदमुखनिःसृतकीर्त्तिरंशैर्वेदाङ्गवेदजनकस्य हरेर्विधातुः
गोपाङ्गनावदनपङ्कजषट्पदस्य रासेश्वरस्य रसिकारमणस्य पुंसः
चक्षुर्निमेषपतितो जगतां विधाता तत्कर्म वत्स कथितुं भुवि कः समर्थः
यूयं वयं तस्य कलाकलांशाः कलाकलांशा मनवो मुनीन्द्राः