भोजतं कारयित्वा च कर्पूरादिसुवासितम् । ताम्बूलं च ददौ शीघ्रं माल्यं सुस्निग्धचन्दनम्
शुभाशिषं च प्रददौ वाञ्छितं प्रवरं वरम् । ज्ञानं कृष्णेन यद्दत्तं गोलोके रासमण्डले
पुरुषाणां शतं यावन्निश्चलां कमलां ददौ । विद्यां यशस्करीं शुद्धां यशः कीर्तिं सुनिर्मलाम्
सर्वसिद्धिं हरेर्दास्यं हरिभक्तिं च निश्चलाम् । पार्षदप्रवरत्वं च पार्षदं च हरेरिति
वरं प्रसादं दत्त्वा च समुत्थाय मुदाऽन्वितम् । वह्निशुद्धांशुके धृत्वा चामूल्यं रत्नभूषणम्
हीरहारं रत्नमालां परिघाय मनोहराम् । सिन्दूरं कज्जलं पुष्पमाल्यं सुस्तिग्धचन्दनम्
रत्नसिंहासनस्थं तं पूजिता पूजितं मुदा । वेष्टिता हर्षनिरतं गौपीनां शातकोटि भिः
राधिकोवाच सत्यमायास्यति हरिः सत्यं निष्कपटं वद । वद तथ्यं भयं त्यक्त्वा सत्यं ब्रूहि सुसंसदि
वरं कूपशताद्वापी वरं वापीशतात्क्रतुः । वरं क्रतुशतात्पुत्रः सत्यं पुत्रशतात्किल
न हि सत्यात्परो धर्मो नानृतात्पातकं परम्
उद्धव उवाच सत्यमायास्यति हरिः सत्यं द्रक्ष्यसि सुन्दरि । ध्रुवं त्यक्ष्यसि संतापं दृष्ट्वा चन्द्रमुखं हरेः
मद्दर्शनान्महाभागे गतस्ते विरहज्वरः । नानाभोगसुखं भुक्त्वा त्यज चिन्तां दुरत्ययाम्
अहं प्रस्थापयास्यामि गत्वा मधुपुरीं हरिम् । विधाय तत्प्रबोधं च कार्यमन्यत्करिष्यति
विदायं कुरु मे मातर्यास्यामि हरिसंनिधिम् । सर्वं तं कथयिष्यामि त्वद्वृत्तान्तं यथोचितम्
राधिकोवाच गमिष्यसि यदा वत्स मथुरां सुमनोहराम् । श्रृणु दुःखकथां कांचित्तिष्ठ वत्स स्थिरोभव
मां विस्मृतो न भवसि विरहज्वरकातराम् । कथयिष्य सि मत्कान्तं ध्रुवं प्रस्थापयिष्यसि
नारीणां मनसो वार्तां को वा जानाति पण्डितः । किंचिच्छास्त्रानुसारेण प्रकरोति निरूपणम्
वेदा वक्तुं न शक्ताश्च शास्त्राणि किं वदन्ति च । कथ यिष्यामि त्वां सर्वं पुत्र कृष्णं च वक्ष्यसि
गेहे वने न भेदो मे पश्वादिषु तथा नृषु । किं वा जलं किमु स्वप्नमज्ञानं च दिवानिशम्
आत्मानं च न जानामि चौदयं चन्द्रसूर्ययोः । क्षणं प्राप्य हरेर्वार्तां चेतनं मे बभूव ह
कृष्णाकृतिं च पश्यामि श्रृणोमि मुरलीध्वनिम् । कुलं लज्जां भयं त्यक्त्वा चिन्तयामिहरेः पदम्
संप्राप्य सर्वजगतामीश्वरं प्रकृतेः परम् । न ज्ञानं मायया तस्य ज्ञात्वा गोपपतेर्मंम
ध्यायन्ते यत्पदाम्भोजं वेदा ब्रह्मादयः सुराः । स भर्त्सितो मया कीपाद्ध्दि शत्यमिदं मम
तत्पदाम्भोजसेवाभिर्गुणप्रस्तावतोऽपि वा । तद्भक्त्या यत्क्षणो नीतो ध्यातो ध्यानेन पूजया
तत्रापि मङ्गलं सर्वं हर्षमायुर्व्यंवस्थितम् । विघ्नं च हृदि संतापस्तद्विच्छेदे सदोद्धव
क्रीडाप्रीतिर्नं भविता तादुशीष्टा पुनर्मम । तादृशं प्रेमसौभाग्यं निर्जने न च संगमः
वृन्दावनं न यास्यामि तत्सङ्गे पुनरुद्धव । चन्दनं वा न दास्यामि नन्दनन्दनवक्षसि
मालां तस्मै न दास्यामि न द्रक्ष्यामि मुखाम्बुजम् । मालतीनां केतकीनां चम्पकानां च काननम्
पुनरेव न यास्यामि सुन्दरं रासमण्डलम् । हरिसङ्गे न यास्यामि रम्यं चन्द्रनकाननम्
पुनरेव न यास्यामि मलयं रत्नमन्दिरम् । माधवीनां वनं रम्यं रहस्यं मधुकाननम्