सुगन्धियुक्ते कस्तूरीजातीचम्पकचन्दनैः । परितो मालतीमाल्यहीरहारविभूषिते
मणीन्द्रमुक्तामाणिक्यसुन्दरैश्च परिष्कृते । पुष्पमाल्योपधाने च मङ्गलार्हे मुदाऽन्विता
शयनं कुरु देवेशि गोपीभिः सेविता सदा । करोतु सेवनं शश्वत्प्रियालिः श्वेतयामरैः
पदारविन्दसेवां च गोपीभक्ता मनोहरे । सद्रत्नसारनिर्माणपर्यङ्के सुमनोहरे
त्येवमुक्त्वा स मुने पुनस्तूष्णीं बभूव ह । प्रणम्य पादपद्मं च ब्रह्मादिसुरवन्दितम्
उद्धवस्य वचःश्रुत्वा सस्मिता राधिका सती । यौतुकं च ददौ तस्मै रत्नसाराङ्गुलीयकम्
अमूल्यं सुन्दरं रम्यं विश्वकर्मविनिर्मितम् । मुखदृश्यं पीतवर्ण सुदीप्तं सुप्रदीपवत्
कृष्णय वह्निना दत्तमपूर्वं रासमण्डले । मणिकुण्डलयुग्मं चामूल्यरत्नविनिर्मितम्
अमूल्यरत्ननिर्माणं सर्वभूषणमीप्सितम् । वह्निशुद्धांशुकयुगं रत्ननिर्माणनायकम्
हीरहारविनिर्माणं हारं च सुमनोहरम् । पुरा दत्तं च सुप्रित्या कृष्णाय वरुणेन च
श्रीसूर्येण च यद्दत्तं श्रीकृष्णाय स्यमन्तकम् । प्रदत्तं कौ(यौ) तुकं तस्मै यद्दत्तं हरिणा पुरा
यद्दत्तं च महेन्द्रेण रत्नसिंहासनं वरम् । तत्प्रदत्तं मुदा देब्या तस्मै प्रीत्या च राधाया
मणीन्द्रसारनिर्माणं छत्ररत्नं मनोहरम् । मुक्तामाणिक्यसारेण हीरहारसमन्वितम्
विचित्ररत्नपद्मेन विचित्रं वारुणं सदा । शोभितं परितश्चान्यै रत्ननिर्माणदर्पणैः
यद्दत्तं ब्रह्मण प्रीत्या हरये रासमण्डले । सुप्रीत्या राधया तत्र प्रदत्तमुद्धवाय च
मणिकारविनिर्माणं मणिराजविराजितम् । जपामाल्यं संस्कृतं च यद्दत्तं शंभुना पुरा
तदेव दत्तं तस्मै चाप्यमूल्यं पुण्यदं शुभम् । जन्ममृत्युजराव्याधिहरं चातिमनोहरम्
चन्द्रकान्तमणिं रम्यं चन्द्रदत्तं परिष्कृतम् । चन्द्रावलीं ददौ तस्मै सुदीप्तं पूर्णचन्द्रवत्
विशुद्धं मधुपूर्णं च मधुपात्रं यदक्षयम् । धर्मेण यत्प्रदत्तं च तद्दत्तं प्रियया हरेः
जलभोजनपात्रं च शृद्रं स्वर्णविनिर्मितम् । मिष्टान्नं परमान्नं चददौ सुस्वादुमिष्टकम्
भोजतं कारयित्वा च कर्पूरादिसुवासितम् । ताम्बूलं च ददौ शीघ्रं माल्यं सुस्निग्धचन्दनम्
शुभाशिषं च प्रददौ वाञ्छितं प्रवरं वरम् । ज्ञानं कृष्णेन यद्दत्तं गोलोके रासमण्डले
पुरुषाणां शतं यावन्निश्चलां कमलां ददौ । विद्यां यशस्करीं शुद्धां यशः कीर्तिं सुनिर्मलाम्
सर्वसिद्धिं हरेर्दास्यं हरिभक्तिं च निश्चलाम् । पार्षदप्रवरत्वं च पार्षदं च हरेरिति
वरं प्रसादं दत्त्वा च समुत्थाय मुदाऽन्वितम् । वह्निशुद्धांशुके धृत्वा चामूल्यं रत्नभूषणम्
हीरहारं रत्नमालां परिघाय मनोहराम् । सिन्दूरं कज्जलं पुष्पमाल्यं सुस्तिग्धचन्दनम्
रत्नसिंहासनस्थं तं पूजिता पूजितं मुदा । वेष्टिता हर्षनिरतं गौपीनां शातकोटि भिः
राधिकोवाच सत्यमायास्यति हरिः सत्यं निष्कपटं वद । वद तथ्यं भयं त्यक्त्वा सत्यं ब्रूहि सुसंसदि
वरं कूपशताद्वापी वरं वापीशतात्क्रतुः । वरं क्रतुशतात्पुत्रः सत्यं पुत्रशतात्किल
न हि सत्यात्परो धर्मो नानृतात्पातकं परम्