क्व वाऽपराधो दास्याश्च दासीदोषः पदे पदे । इत्येवमुक्त्वा सा देवी पुनर्मूर्च्छामवाप सा
चेतनां कारयामास पुनरेव स उद्धवः । तां दृष्ट्वा परमाश्चर्य मेने क्षत्रियपुंगवः
सखीभिः सप्तभिः शश्वत्सेवितां श्वेतचामरैः । गोपीनां च त्रिलक्षैश्च सुप्रियैः प्रियसेविताम्
दिवानिशं वेष्टितां च गोपीनां शतकोटिभिः । काचित्कज्जलहस्ता च काचिन्माल्यवराऽपरा
काचित्सिन्दूरहस्ता च काचिद्गोरोचनाकरा । काचिच्चन्दनपात्रं च हस्ते कृत्वा च तिष्ठति
काचिद्दर्पणहस्ता च काचित्कुङ्कुमावहिका । कस्तूरीपात्रमिष्टं च काचिद्वहति तत्र वै
काचिच्चम्पकपात्रं च करे धृत्वा च तिष्ठति । मधुभिर्मधुरैः पूर्णं पात्रं धृत्वा शुचाऽन्विता
काचित्सुगन्धितैलं च गृहीत्वा परितिष्ठति । काचिद्वहति ताम्बूलं कर्पूरादिसुवासितम्
काचिद्वासितमच्छं च जलं धृत्वा च तिष्ठति । क्रीडापुत्तलिकां काचिच्चित्राढ्यां परिरक्षति
काचिद्वहति कन्दूकं काचिच्च रत्नभूषणम् । वह्निशुद्धांशुकं काचिदमूल्यं परिरक्षति
काचिद्भक्षयोपहारं च गृहीत्वा परिवर्तते । काचिच्च केशवेशार्थकरोति माल्यमीप्सितम्
काचित्कङ्कतिकां धृत्वा पुरतः परितिष्ठति । काचिद्यावकहस्ता च काचिद्धात्रीरसं मुदा
दूरतोऽपि वहत्येवं भीता च परितिष्ठति । काचिद्भीता भिया स्तौतिकाचिद्रोदिति शोकतः
काचित्तां बौधयेत्येर्व विदग्धा विरहातुराम् । काचिदुत्तापतप्ता च स्निग्धतल्पे मनोहरे
स्थापयेद्दाहदूरार्थं स्निग्धपद्मदले शुभे । एवंभूतां चतां दृष्टवा चोवाच पुनरुद्धवः
उद्धव उवाच जाने त्वां देवदेवीशां सुस्निग्धां सिद्धयोगिनीम् । सर्वशक्तिस्वरूपां च सूलप्रकृतिमीश्वरीम्
श्रीदामशापाद्धरणीं प्राप्तां गोलोककामिनीम् । कृष्णप्राणाधिकां देवीं तद्वक्षःस्थलवासिनीम्
शृणु देवि प्रवक्ष्यामि शुभवार्तामभीप्सिताम् । सुस्थिरं सखिभिः सार्धं हृदयस्नग्धिकारिणीम्
दुःखदावाग्निदग्धायाः सुधावर्षणरूपिणीम् । विरहव्याधियुक्ताया रसायनसमां शुभाम्
तत्र तिष्ठति नन्दोऽयं सानन्दो सुदितः सदा । निमन्त्रितश्च वसुना कृष्णोपनयनावधि
गृहीत्वा सबलं कृष्णं साङ्गे मङ्गलकर्मणि । स नन्दः परमानन्दो सुदाऽऽयास्यति गोकुलम्
आगत्य कृष्णो मुदितः प्रणम्य मातरं पुनः । नक्तमायास्यति मुदा पुण्यं वृन्दावनं वनम्
अचिराद्द्रक्ष्यसि सति श्रीकृष्णमुखपङ्कजम् । सर्वं विरहदुःखं च संत्यक्ष्यसि च सांप्रतम्
सुस्थिरा भव मातस्त्वं त्यज शोकं सुदारुणम् । वह्निशुद्धांशुकं रम्यं परिधाय प्रहर्षिता
अमूल्यरत्ननिर्माणभूषणग्रहणं कुरु । गृहाणचन्दनं स्निग्धं कस्तूरीकुङ्कुमान्वितम्
कुरुष्व केशसंस्कारं मालतीमाल्यभूषितम् । सुवेषं कुरु कल्याणि गण्डे च चित्रपत्रकम्
सिन्दूरबिन्दुं सीमन्ते कस्तूरीचन्दनान्वितम् । अलक्तकाक्तं चरणं युक्तं यावकभूषणैः
कुरुष्व तिष्ठचोतिष्ठ रत्नसिंहासने वरे । सपङ्कपङ्कजं तल्पं त्यज सार्धं शुचा सति
भुङ्क्ष्व कृष्णेन मनसा विशुद्धं मधुरं मधु । संस्कृतं भासितं तोयं ताम्बूलं च सुवासितम्
रत्नेन्द्रसारनिर्माणपर्यङ्के मुमनोहरे । वह्निसद्धांशुकाक्ते च मालतीमाल्यभूषिते