तृष्णायै क्षुत्स्वरूपायै स्थितिकर्त्र्यै नo । नमः संहाररूपिण्यै महामार्यै नo
भयायैं चाभयायैं च मुक्तिदायै नo । नमः स्वधायैं स्वाहायै शान्तयै कान्त्यै नo
नमस्तुष्ट्यैं च पुष्ट्यै च दयायै च नo । नमो निद्रास्वरूपायै श्रद्धायै च नo
क्षुत्पिपासास्वरूपायै लज्जायैं च नo । नमो धृत्यैं क्षमायैं च चेतनायैं नo
सर्वशक्तिस्वरूपिण्यै सर्वमात्रे नo । अग्नौ दाहस्वरूपायै भद्रायै च नo
शोभायै पूर्णचन्द्रे च शरत्पद्म नo । नास्ति भेदो यथा देवि दुग्धधावल्ययोःसदा
यथैव गन्धभूम्योश्च यथैव जलशैत्ययौः । यथैव शब्दन्भसोर्ज्योतिः सूर्यकयोर्यथा
लोके वेदे पुराणे च राधामाधवयोस्तथा । चेतनं कुरु कल्याणि देहि मामुत्तरं सति
इत्युक्त्वा चोद्धवस्तत्र प्रणनाम पुनः पुनः । इत्युद्ववकृतं स्तोत्रं यः पठेद्भक्तिपूर्वकम्
इह लोके सुखं भुक्त्वा यात्यन्ते हरिमन्दिरम् ।न भवेद्बन्धुविच्छेदो रोगः शोकः सुदारुणः
प्रोषिता स्त्री लभेत्कान्तं भार्याभेदी लभेत्प्रियाम् । अपुत्रो लभते पुत्रान्निर्धनो लभते धनम्
निर्भूमिर्लभते भूमिं प्रजाहीनो लभेत्प्रजाम् । रोगाद्विमुच्यते रोगी बद्धी मुच्यते बन्धनात्
भयान्मुच्येत भीतस्तु मुच्येताऽऽपन्नआपदः । अस्पष्टकीर्तिः सुयशा मूर्खो भवति पण्डितः
अथ त्रिनवतितमोऽध्यायः नारायण उवाच उद्धवस्तवनं श्रुत्वा चेतनां प्राप्य राधिका । विलोक्य कृष्णाकारं च तमुवाच शुचाऽन्विता
राधिकोवाच किन्नाम भवतो वत्स केन वा प्रेरितो भवान् । आगतो वा कुत इति ब्रूह मां केन हेतुना
कृष्णाकृतिस्त्वं सर्वाङ्गैर्मन्ये त्वां कृष्णपार्षदम् । कृष्णस्य सुशलं ब्रूहि बरदेवस्य सांप्रतम्
नन्दस्तिष्ठति तत्रैव हेतुना केन तद्वद । समायास्यति सोविन्दो रम्यं वृन्दावनं वनम्
पुनर्द्रक्ष्यामि तस्यैव पूर्णचन्द्रमुखं शुभम् । पुनः क्रीडां करिष्यामि तेनाहं रासमण्डले
जले च विहरिष्यामि पुनर्वा सखिभिः सह । श्रीनन्दनन्दनाङ्गे च पुनर्दास्यामि चन्दनम्
उद्धव उवाच उद्दवेत्यभिधानं मे क्षत्रियोऽहं वरानने । प्रेषितः शुभवार्तार्थं कृष्णेन परमात्मना
तवान्तिकं समायातः पार्षदोऽहं हरेरपि । कृष्णस्य बलदेवस्य शिवं नन्दस्य सांप्रतम्
राधिकोवाच अस्ति तद्यमुनाकूलं सुगन्धिपवनोऽस्ति सः । तस्य केलिकदम्बानां मूलमस्तयेव सांप्रतम्
पुण्यं वृन्दावनं रम्यं तद्विद्यमानमीप्सितम् । पुंस्कोकिलानां विरुतं तल्पं चन्दनचर्चितम्
चतुर्विधं च भोज्यं च मधुपानं च सुन्दरम् । दुरन्तो दुःखदोऽप्यस्ति पापिष्ठो मन्मथस्तथा
ते च रत्नप्रदीपाश्च ज्वलन्ति रासमण्डले । मणीन्द्रसारनिर्माणमस्त्येव रतिमन्दिरम्
गोपाङ्गनागणोऽस्त्येव पूर्णचन्द्रोऽस्ति शोभितः । सुगन्धिपुष्परचितं तल्पं चन्दनचर्चितम्
ताम्बूलं रतिभोगार्हं कर्पूरादिसुसंस्कृतम् ।सुगन्धिमालतीमाल्यं श्वेतचामरदर्पणम्
मुक्तामाणिक्यसंसक्तहीरहारमनोहरम् । कस्तूरीकुङ्कुमाक्तं च पात्रपूर्णं च चन्दनम्
नानोपकाननं रम्यं रम्यक्रीडासरोवरम् । सुगन्धिपुष्पोद्यानं च पद्मश्रेणीमनोहरम्
अस्त्येवं सर्वविभवः प्राणनाथः कुतो मम । हा कृष्ण हा रामानाथ क्वासि मे प्राणवल्लभ