नारायणप्रियायै च नारायण्यै नo । नमोऽस्तु विष्णुमायायै वैष्णव्यै च नo
महामायास्वरूपायै संपदायै नo । नमः कल्याणरूपिण्यै शुभायै च नo
मात्रे चतुर्णा वेदानां सावित्र्यै च नo । नमोऽस्तु बुद्धिरूपायै ज्ञानदायै नo
नमो दुर्गविनाशिन्यै दुर्गादेव्यै नo । तेजःसु सर्वदेवानां पुरा कृतयुगे मुदा
अधिष्टानकृतायै च प्रकृत्यै च नo । नमस्त्रिपुरहारिण्यै त्रिपुरायै नo
सुन्दरीषु च रम्यायै निर्गुणायै नo । ममो निद्रास्वरूपायै निर्गुणायै नo
नमो दक्षसुतायै च नमः सत्यै नo । नमः शैलसुतायै च पार्वत्यै च नo
नमो नमस्तपस्विन्यै ह्यु मायै च नo । निराहारस्वरूपायै ह्यपर्णायै नo
गौरीलौकविलासिन्यै नमो गौर्यै नo । नमः कैलासवासिन्यै माहेश्वर्यैः नo
निद्रायै च दयायै च श्रद्धायै च नo । नमो धृत्यै क्षमार्यै च लज्जायै च नo
तृष्णायै क्षुत्स्वरूपायै स्थितिकर्त्र्यै नo । नमः संहाररूपिण्यै महामार्यै नo
भयायैं चाभयायैं च मुक्तिदायै नo । नमः स्वधायैं स्वाहायै शान्तयै कान्त्यै नo
नमस्तुष्ट्यैं च पुष्ट्यै च दयायै च नo । नमो निद्रास्वरूपायै श्रद्धायै च नo
क्षुत्पिपासास्वरूपायै लज्जायैं च नo । नमो धृत्यैं क्षमायैं च चेतनायैं नo
सर्वशक्तिस्वरूपिण्यै सर्वमात्रे नo । अग्नौ दाहस्वरूपायै भद्रायै च नo
शोभायै पूर्णचन्द्रे च शरत्पद्म नo । नास्ति भेदो यथा देवि दुग्धधावल्ययोःसदा
यथैव गन्धभूम्योश्च यथैव जलशैत्ययौः । यथैव शब्दन्भसोर्ज्योतिः सूर्यकयोर्यथा
लोके वेदे पुराणे च राधामाधवयोस्तथा । चेतनं कुरु कल्याणि देहि मामुत्तरं सति
इत्युक्त्वा चोद्धवस्तत्र प्रणनाम पुनः पुनः । इत्युद्ववकृतं स्तोत्रं यः पठेद्भक्तिपूर्वकम्
इह लोके सुखं भुक्त्वा यात्यन्ते हरिमन्दिरम् ।न भवेद्बन्धुविच्छेदो रोगः शोकः सुदारुणः
प्रोषिता स्त्री लभेत्कान्तं भार्याभेदी लभेत्प्रियाम् । अपुत्रो लभते पुत्रान्निर्धनो लभते धनम्
निर्भूमिर्लभते भूमिं प्रजाहीनो लभेत्प्रजाम् । रोगाद्विमुच्यते रोगी बद्धी मुच्यते बन्धनात्
भयान्मुच्येत भीतस्तु मुच्येताऽऽपन्नआपदः । अस्पष्टकीर्तिः सुयशा मूर्खो भवति पण्डितः
अथ त्रिनवतितमोऽध्यायः नारायण उवाच उद्धवस्तवनं श्रुत्वा चेतनां प्राप्य राधिका । विलोक्य कृष्णाकारं च तमुवाच शुचाऽन्विता
राधिकोवाच किन्नाम भवतो वत्स केन वा प्रेरितो भवान् । आगतो वा कुत इति ब्रूह मां केन हेतुना
कृष्णाकृतिस्त्वं सर्वाङ्गैर्मन्ये त्वां कृष्णपार्षदम् । कृष्णस्य सुशलं ब्रूहि बरदेवस्य सांप्रतम्
नन्दस्तिष्ठति तत्रैव हेतुना केन तद्वद । समायास्यति सोविन्दो रम्यं वृन्दावनं वनम्
पुनर्द्रक्ष्यामि तस्यैव पूर्णचन्द्रमुखं शुभम् । पुनः क्रीडां करिष्यामि तेनाहं रासमण्डले
जले च विहरिष्यामि पुनर्वा सखिभिः सह । श्रीनन्दनन्दनाङ्गे च पुनर्दास्यामि चन्दनम्
उद्धव उवाच उद्दवेत्यभिधानं मे क्षत्रियोऽहं वरानने । प्रेषितः शुभवार्तार्थं कृष्णेन परमात्मना