निश्चेष्टां च निराहारां सुवर्णवर्णकुण्डलाम् । शुष्किताधरकण्ठां च किंचिन्निः श्वाससंयुताम्
प्रणनाम च तां दृष्ट्वा भक्तिनम्रात्मकंधरः । पुलकाञ्चितसर्वाङ्गो भक्त्या भक्तः स उद्धवः
उद्धव उवाच वन्दे राधापदाम्भोजं ब्रह्मादिसुरविन्दतम् । यत्कीर्तिः कीर्तनेनैव पुनाति भुवनत्रयम्
नमो गोकुलवासिन्यै राधिकायै नमो नमः । शतशृङ्गनिवासिन्यै चन्द्रावत्यै नo
तुलसीवनवासिन्य वृन्दारण्यै नo । रासमण्डलवासिन्यै रासेश्वर्यै नo
विरजातीरवासिन्यै वृन्दायै च नo । वृन्दावनविलासिन्यै कृष्णायै च नo
नमः कृष्णप्रियायै च शान्तायै च नo । कृष्णवक्षःस्थितायै च तत्पियायै नo
नमो वैकुण्ठवासिन्यै महालक्ष्म्यै नo । विद्याधिष्ठातृदेव्यै च सरस्वत्यै नo
सर्वैश्वर्याधिदेव्यै च कमलायै नo । पद्मनाभप्रियायै च पद्मायै च नo
महाविष्णोश्च मात्रे च पराद्यायै नo । नमः सिन्धुसुतायै च मर्त्यलक्ष्मयै नo
नारायणप्रियायै च नारायण्यै नo । नमोऽस्तु विष्णुमायायै वैष्णव्यै च नo
महामायास्वरूपायै संपदायै नo । नमः कल्याणरूपिण्यै शुभायै च नo
मात्रे चतुर्णा वेदानां सावित्र्यै च नo । नमोऽस्तु बुद्धिरूपायै ज्ञानदायै नo
नमो दुर्गविनाशिन्यै दुर्गादेव्यै नo । तेजःसु सर्वदेवानां पुरा कृतयुगे मुदा
अधिष्टानकृतायै च प्रकृत्यै च नo । नमस्त्रिपुरहारिण्यै त्रिपुरायै नo
सुन्दरीषु च रम्यायै निर्गुणायै नo । ममो निद्रास्वरूपायै निर्गुणायै नo
नमो दक्षसुतायै च नमः सत्यै नo । नमः शैलसुतायै च पार्वत्यै च नo
नमो नमस्तपस्विन्यै ह्यु मायै च नo । निराहारस्वरूपायै ह्यपर्णायै नo
गौरीलौकविलासिन्यै नमो गौर्यै नo । नमः कैलासवासिन्यै माहेश्वर्यैः नo
निद्रायै च दयायै च श्रद्धायै च नo । नमो धृत्यै क्षमार्यै च लज्जायै च नo
तृष्णायै क्षुत्स्वरूपायै स्थितिकर्त्र्यै नo । नमः संहाररूपिण्यै महामार्यै नo
भयायैं चाभयायैं च मुक्तिदायै नo । नमः स्वधायैं स्वाहायै शान्तयै कान्त्यै नo
नमस्तुष्ट्यैं च पुष्ट्यै च दयायै च नo । नमो निद्रास्वरूपायै श्रद्धायै च नo
क्षुत्पिपासास्वरूपायै लज्जायैं च नo । नमो धृत्यैं क्षमायैं च चेतनायैं नo
सर्वशक्तिस्वरूपिण्यै सर्वमात्रे नo । अग्नौ दाहस्वरूपायै भद्रायै च नo
शोभायै पूर्णचन्द्रे च शरत्पद्म नo । नास्ति भेदो यथा देवि दुग्धधावल्ययोःसदा
यथैव गन्धभूम्योश्च यथैव जलशैत्ययौः । यथैव शब्दन्भसोर्ज्योतिः सूर्यकयोर्यथा
लोके वेदे पुराणे च राधामाधवयोस्तथा । चेतनं कुरु कल्याणि देहि मामुत्तरं सति
इत्युक्त्वा चोद्धवस्तत्र प्रणनाम पुनः पुनः । इत्युद्ववकृतं स्तोत्रं यः पठेद्भक्तिपूर्वकम्
इह लोके सुखं भुक्त्वा यात्यन्ते हरिमन्दिरम् ।न भवेद्बन्धुविच्छेदो रोगः शोकः सुदारुणः